SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ चतुरशीतिप्रबन्धान्तर्गतः कुमारपालदेवप्रबन्धः । चौलुक्यवंशेग(शध्व )जः श्रीकुमारपालदेवः - एको यः सकलं कुतूहलितया म( ब )भ्राम भूमीतलं, प्रीत्या यस्य पतिंवरा समभवत् साम्राज्यलक्ष्मीस्वयम् । श्रीसिद्धाधिपविप्रयोगविधुरामप्रीणयत्( द्) यः प्रजां; कस्यासौ विदितो न गूर्जरपतिश्चा(श्चौ )लुक्यवंशजध्वजः ॥१॥ ६६१. तस्य प्रबन्धो लिख्यते । यथा-श्रीपत्तने श्रियां निकेतने श्रीसिद्धचका क्र]वर्ती राज्यं करोति । तस्य पितृव्यस्य त्रिभुवनपालदेवस्य कुमारपालदेवः सुतोऽस्ति । पुत्र्यौ द्वे स्त: । एका प्रेमलदेवी, सपादलक्षाधिपतिना आनाकेन नृपतिना परिणीता । द्वितीया नामलदेवी, राज्ञा महासाधनिकेन प्रतापमल्लेन परिणीता । अन्यदा 10 श्रीसिद्धराजो निरपत्यश्चिन्तयति निर्नामताम्बुधौ मज्जद् राज्यभूवलयोद्धतौ । पुत्राः क्रीडावराहन्तः सम्पद्यन्ते कृताऽऽत्मनाम् ॥२॥ घटिकाऽप्येकया घट्या कुण्डीपयसि मज्जति । गोत्रं पुनरपुत्रस्य क्षणान्निर्नामताम्भसि ॥३॥ 15 इति विचिन्त्य देवपत्तने श्रीसोमेश्वरयात्रायै चचाल । तत्र गत्वा सोमेश्वरः पूजादिभिराराधितः । स प्रत्यक्षीभूय उवाच- 'स्कन्धे विहङ्गिकां विधाय इहाऽऽगमने कष्टं कथं कृतम् ?' । तेनोक्तम्-'किं तेन ? राज्यार्थम्'। 'राज्यधरस्ते कुमारपालदेवो भविष्यति'। नृपो निवृत्त्याऽऽयातस्त्वेवमचिन्तयत्- 'चेदमुं मारयामि तदा सोमेश्वरः सुतं यच्छति'। अतस्तं मारयितुमारेभे । साप(सोऽपि) विंशद्वर्षदेशीयः पुराच्छन्नो निस्ससार । भ्रमन् 20 सप्तवारं केदारयात्रामकरोत् । अन्तराऽन्तरा पत्तने छन्नमभ्येति । Jain Education International For Private & Personal Use Only www.jainelibrary.org :
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy