________________
कुमारपालप्रबोधप्रबन्धः ।
५५१. किञ्चिद् गुरुमुखाच्छ्रुत्वा किञ्चिदक्षरदर्शनात् । प्रबन्धोऽयं कुमारस्य भूपतेर्लिखितो मया ॥
॥ इति कुमारपालप्रबोधप्रबन्धः समाप्तः ॥ *
★ कुमारपालप्रबोधप्रबन्धसमाप्त्यनन्तरं [पत्र - १११] B प्रतौ अयमधिकः पाठः केनापि पश्चात् समुल्लिखित :
"अथ अजयपालराज्यम् । श्रीहेमचन्द्रद्वेषाद् रामचन्द्रादौ तप्तलोहविष्टरासनयातना लोको वक्ति ।
जो करिवराण कुम्भे पाए दाऊण मुत्तिए दलइ । सो सीहो विहिवसओ जंबूपरिपिल्लणं सहइ ॥१॥
२११
राम: 'महिपीढहं सचराचरह, जिण सिरि दिन्हा पाय । तसु अत्थमीय दिसरह, होड़ ति होउ चिराय ॥
Jain Education International
इत्युदीर्य दशनै रसनां छिन्दन् मृतः । एवमाद्रितः राजविहाराणां पातनम् । लघुक्षुल्लकानाह्वाय्य प्रातर्मृगयाभ्यासं कास्यति, 'पूर्वमेते चैत्यपरिपाटीमकार्षुः' इत्युपहासात् । बालचन्द्रोऽपि 'गोत्रहत्याकारापकः ' इति ब्रुवद्भिर्बाह्मणैर्नृपचित्तादुत्तारितः । प्रासादपातनं दृष्ट्वा लोकोऽत्यन्तं खिद्यते । प्रपञ्चेन रक्षा कारिता । कथम् ? नृपवल्लभः कौतुकी शीलणो भूरिहेमदानेन प्रार्थितः । स इष्टकं सौधमेकं कृत्वा धवलितं चित्रितं च 1 पुत्राः पञ्च । कर्णे एवमेवमुपराजं कर्त्तव्यम् । राजान्ते शीलणोऽवक्- 'देव ! राजाज्ञा मे शिरसि स्थिता, पुत्रपौत्रवान् जातः, यद्यादेशः स्यात् तदा तीर्थेषु यामि' ।
राजा - यथारुचिश्चेष्टस्व । नृपे पश्यति पुत्रा भाषिता: - एतन्मे सौधं यत्नतो रक्ष्यम् । तैस्तथैवोक्तम् । अग्रे कियतीमपि भुवं यावद् याति तावत् तैस्तत् सौधं लकुटैर्हत्वा भग्नम् । षाट्कारं श्रुत्वा व्याघुट्योवाचरे हताशाः ! अस्मादपि कुनृपात् कुपात्रा यूयम्, अनेनात्मीये पितरि मृते तद्धर्मस्थानानि पातितानि भवद्भिः पुनरहं पदशतमपि गच्छन्न प्रतीक्षितः । राजा ललज्जे । चैत्यानां रक्षा कारिता । तस्य कुत्सितस्य राज्ञो मातापुत्रयोर्बलाद्विप्लवं कारयितुं रुचिरुत्पन्ना । वण्ठां (ण्ठाना) कारयति । एकदैकेन वण्ठेन छन्नधृतकङ्कलोहकर्तिकया जघ्ने मृतः वर्ष ३ मास १ दिन २८ । मूल [ राज ] राज्यं वर्ष २ मास १ दिन २४ । भीमराजराज्यं वर्ष ६० मास ५ दिन ७ । तिहुणपालराज्यं वर्ष २ दिन १२ । वीसलदेवराज्यं वर्ष १८ मास ७ दिन ७ । अर्जुनदेवराज्यं वर्ष १३ मास ७ दिन २३ । सारङ्गदेवराज्यं वर्ष २१ मास ८ । एवं वर्ष २४ (६७?) मास ९ राजानः पत्तने । ततो म्लेच्छराज्यम् । कल्याणमस्तु ||छ | संवत् १६६३ वर्षे कार्तिकवदि ९ शुक्रवासरे ॥ शुभं भवतु लेखकपाठकयोः ॥
For Private & Personal Use Only
www.jainelibrary.org