SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 10 15 २१० ✡ 5 ततो लोके हाहाकारो महानभूत् । सर्वत्रलोकानामिति गिरः प्रादुरासन् ५४५. आकर्ण्य प्रतिकाननं पशुगणाश्चौलुक्यभूपव्ययम्, क्रन्दन्तः करुणं परस्परमदो वक्ष्यन्ति निःसंशयम् । योऽभून्नः कुलवर्द्धनः स सुकृती राजर्षिरस्तं ययौ, यूयं यात दिगन्तरं झटिति रे नो चेन्मृता व्याधतः ॥ ✡ 20 कुमारपालचरित्रसङ्ग्रहः ५४४. सैर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचन्द्रं प्रभुम्, धर्मं तद्गदितं च कल्मषमषीप्रक्षालनापुष्करम् । व्योमाग्निर्यम( १२३० ) वत्सरे विषलहर्युत्सर्पि मूर्छाभरो, मृत्वाऽवाप कुमारपालनृपतिः स व्यन्तराधीशताम् ॥ Jain Education International *५४६.नाऽभूद् भविता चात्र हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः ॥ ५४७. आज्ञावर्तिषु मैण्डलेष्वष्टादशस्वादरा दब्दान्येव चतुर्दश प्रसृमरी मारिं निवार्यौजसा । कीर्त्तिस्तम्भनिभां चतुर्दशशतीसङ्ख्यान् विहारांस्तथा, कृत्वा निर्मितवान् कुमारनृपतिजैनो निजैनो व्ययम् ॥ ५४८. कर्णाटे गूर्जरे लाटे सौराष्ट्रे कच्छ-सैन्धवे । उच्चायां चैव भम्भेर्यां मारवे मालवे तथा ॥ ५४९. कौङ्कणे तु तथा राष्ट्रे कीरे जाङ्गलके पुनः । सपादलक्षे मेवाडे दीपे ( ढील्ल्यां ?) जालन्धरेऽपि च ॥ ५५०. जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥ ✡ + 1. B नाऽभून्न भ० । 2. B मण्डलेषु विपुलेष्वष्टा० ।★ 'सर्वज्ञं' इति पद्य: Pa प्रतावेवोपलभ्यते । ५४६ श्लोकतः इति कुमारपालप्रबोधप्रबन्धः समाप्तः इति पाठस्थाने Pa आदर्शे निम्नलिखितंः पाठः समस्ति - संविद्विक्रमतोऽङ्कनन्दगिरिशे सम्प्राप्य राज्यश्रियं हिंसां, सव्यसन........ भुक्त्वाऽखिले भूतले । निर्माप्याप्रतिमांश्चतुर्दशशतीसङ्ख्यान् विहारान् नभोवह्नया.... वत्सरे स सुकृती प्राप व्ययम् ( ? ) ॥ इति श्रीकुमारपालप्रबन्धः समाप्तः । सं० १४८५ ॥ छ। छ। • 'कर्णाटे' इत्येतदारभ्य 'वर्जनम्' इत्येतदन्तं श्लोकत्रितयं B प्रतौ नास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy