SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । अर्चामोऽम्बुदमौक्तिकैर्यदि तदाऽप्यानृण्यमस्तु क्व नो; विश्वैश्वर्यदजैनधर्मविविधाम्नायाप्तिहेतू (तुः ) ह्यम् ॥ ५३९. श्रीहेमसूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ॥ १०० ततः श्रीगुरुविरहातुरो राजा यावद्दौहित्रं प्रतापमल्लं राज्ये निवेशयति, 5 तावत् किञ्चित् कृतराजवर्गमेदोऽजयपालो भ्रातृव्यः श्रीकुमारपालदेवस्य विषमविषमदात् । तेन विधुरितगात्रो राजा ज्ञातभ्रातृव्यप्रपञ्चः स्वाधीनां विषापहारशुक्तिकां पुरा कोशे स्थापितां शीघ्रमानयतेति निजाप्तपुरुषानादिदेश । ते च तां पुराऽप्यजयपालेन गृहीतां ज्ञात्वा तूष्णीं स्थिताः । अत्रान्तरे व्याकुले समस्तराजकुले विषापहारिशुक्तिकाया अनागमनहेतुं ज्ञात्वा कोऽपि चारण: पपाठ ५४०. कुमरड ! कुमरविहार एता कांई करावीया । ताहं कु करिसइ सार सीप न आवई सयं धणी ॥ इत्याकर्ण्य राजा यावद्विमर्शं करोति तावत् कोऽप्यवसरावेदकः पपाठ५४१. कृतकृत्योऽसि भूपाल ! कलिकालेऽपि भूतले । आमन्त्रयति तेन त्वां विधिः स्वर्गे यथाविधि ॥ इति श्रुत्वा राजा शुक्तेरनागमनकारणं ज्ञात्वा सर्वसमक्षमित्युवाच५४२. अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो, वादेषु प्रतिवादिनां प्रतिहताः संस्कारगर्भा गिरः । उत्खातप्रतिरोपितैर्नृपतिभिः सारैरिव क्रीडितं; कर्त्तव्यं कृतमर्थना यदि विधेस्तत्रापि सज्जा वयम् ॥ ५४३. इत्युदीर्य स्वधैर्येण भूपतिर्भूरिभाग्यवान् । लक्षं लक्षं ददौ तोषादनयोः पारितोषिकम् ॥ 1. B ०प्यवसरे वे० । 2. B सप्तदि० । २०९ Jain Education International For Private & Personal Use Only 10 ✡ §§१०१. ततो राजा त्रिंशद्वर्षानष्टौ मासान् सप्तविंशतिदिवसान् साम्राज्यं कृत्वा कृतपुरुषार्थं सर्वं विरसावसानं विज्ञाय विज्ञशिरोमणिः प्राणान्ते दशधाराधनां विधाय स्वचिते श्रीपञ्चपरमेष्ठीप्रतिष्ठाप्रणष्टकष्टः समाधिस्वाधीनसाध्यः परमविधिना चरमोच्छासे 25 त्यक्तशरीरादिममत्वस्तत्त्वपरिज्ञानवान् प्राणान् अत्याक्षीत् । 15 20 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy