________________
ग्रन्थलेखनप्रशस्तिः ।
10
श्रीमच्छ्रीचैत्रगच्छेशा श्रीधनेश्वरसूरयः । ततः क्रमागतान्नौमि श्रीभुवनेन्दुसद्गुरून् ॥१॥ देवभद्रगणीशानां शिष्याः श्रीगच्छनायकाः । विजयचन्द्रसूरीन्द्रस्तपसा द्योतिताम्बराः ॥२॥ वज्रसेन-पद्मचन्द्र-खेमकीर्तिस्तथा गुरुः । हेमकुम्भमुनीन्द्रश्च श्रीयशोभद्रसूरिराट् ॥३॥ श्रीरत्नाकरसूरीणां नाम्ना नश्यति कल्मषम् । मुनिशेखरयोगीन्द्रं धर्मदेवगुरुं वरम् ॥४॥ ज्ञानचन्द्राभयसिंहसूरिं तपः परायणम् । हेमचन्द्रप्रभुं वन्दे गुणश्रेणिविभूषितम् ॥५॥ भविकजनसमूहै: सेव्यपादारविन्दम्, रविकिरणसकासं चन्द्रमाकारसौम्यम् । भवजलनिधिनावं दुःखपाशप्रणाशम्, जयतिलकगुरुं श्रीसूरिराजं नमामि ॥६॥ धर्मशेखर-माणिक्यसूरिं माणिक्यसन्निभम् । रत्नसागरसूरीन्द्रं रत्नसिंहगुरुं तथा ॥७॥ उपाध्यायपदे श्रीमन्मुनिरत्नगणीश्वरान् । नौमि पण्डितसाधूनां क्रमाम्बुजमहं सदा ॥८॥ श्रीगच्छेशक्रमाम्भोजसेवने भ्रमरास्सदा । दयावर्द्धननामानः पण्डितास्सपरिच्छदाः ॥९॥
. 15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.