________________
कुमारपालप्रबोधप्रबन्धः ।
५३२. कुमारपाल भूपस्य किमेकं वर्ण्यते क्षितौ । जिनेन्द्र धर्ममासाद्य यो जगत् तन्मयं व्यधात् ॥
✡
§§९८. अत्रान्तरे च निर्व्यूढराजव्यापारौ विहितानेकनवीनप्रासादजीर्णोद्धारपरोपकार - दीनोद्धारादिपुण्यकृत्यैः कृतश्रीजिनशासनप्रभावनौ मन्त्रिबाहडदेव - आम्बडौ स्वर्गं जग्मतुः ।
अथैवं काले श्रीकुमारपाल भूपालः श्रीहेमसूरिञ्च कृतकृत्यौ महसा तपसा वयसा च वृद्धौ जातौ । परं श्रीहेमसूरिगच्छे विरोधः । रामचन्द्र - गुणचन्द्रवृन्दमेकतः, एकतो बालचन्द्रः । तस्य तु राजभ्रातृव्याऽजयपालेन सह मैत्री । अन्यदा राजा श्रीगुरुं पृच्छति स्म- 'भगवन् ! अपुत्रोऽहं, क स्वराज्यपदे स्थापयामि ?' | श्रीगुरुभिरुक्तम्-‘राजन् ! अयं भागिनेयः प्रतापमल्लः प्रजाप्रियो न्यायधर्मनिष्ठो बहुराजवर्गीयसम्मतो राज्यभारधुरा - 10 धुरीणोऽस्ति । अजयपालोऽप्यस्ति परं न सत्सङ्गरङ्गः, न न्यायनिष्ठः, न धर्मप्रियः, न `जनानुरागः । यदुक्तम्
५३३. धर्मशीलः सदा न्यायी पात्रे त्यागी गुणादरः । प्रजानुरागसम्पन्नो राजा राज्यं करोति सः ॥
यथा
न चायमेवंविधगुणवान् । अजयपालात् तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति'। एवं मन्त्रे 15 कृते बालचन्द्रेण स्वरूपमेतदजयपालाय न्यवेदि । तस्य रामचन्द्रादिषु महाद्वेषः समजनि । अत्रावसरे चतुरशीतिवर्षायुषः श्रीहेमसूरिवराः परिज्ञातनिजावसानसमयाः समयोचितं चिकीर्षवः समस्तश्रीसङ्घं स्वकीयगच्छं श्रीकुमारपालनृपतिं चाहूय, 'तवापि षण्मासशेषमायुरस्ती'ति प्रज्ञापनां कृत्वा, दशधाऽऽराधनां विधाय, समाधियोगसाधितस्वकृत्याः५३४. निरञ्जनं निराकारं सहजानन्दनन्दितम् ।
निरूप्य मनसा नित्यं स्वरूपं परमेश्वरम् ॥
५३५. कृत्वा तन्मयमात्मानं त्यक्त्वा सर्वं स्वतः परम् । स्वात्मावबोधसम्भूतज्योतिषेति व्यभावयन् ॥
५३६. आत्मन् ! देवस्त्वमेव त्रिभुवनभवनो ज्योतिदीपस्त्वमेव, ब्रह्मज्योतिस्त्वमेवाखिलविषयसमुज्जीवनायुस्त्वमेव ।
२०७
1. B जनानुरागी ।
Jain Education International
5
For Private & Personal Use Only
20
25
www.jainelibrary.org