SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 5 10 २०६ लक्षारामसहस्राम्रवन-चन्द्रगुम्फाम्बिकावलोकनाशिखर - शाम्ब-प्रद्युम्नादिषु चैत्येषु चैत्यपरिपार्टी कृतवान् महाप्रभावनां च । आरात्रिकावसरे चारण: पपाठ ५२९. लाछि वाणि मुहकाणि ए तई भागी मुह मरउं । मसूर अत्थाणि जे ईसर ते पंडिआ ॥ वन्दनकसमये नृपस्य पृष्टौ हस्तप्रदाने [ अन्यः ] चारणः५३०. हेम तुहारा कर मरउं जिहिं अच्चब्भुअ रिद्धि । जे चांप ठामुहा ताहं ऊपहरी सिद्धि ॥ द्वयोस्त्रिः पाठे लक्षत्रयमौचित्यमदात् । ततः परमेश्वरं तुष्टाव । ५३१. आजन्म कलिताजिह्मपरब्रह्ममयात्मने । चिदानन्दपदस्थाय श्रीनेमिस्वामिने नमः ॥ अथोभयतीर्थयात्रयाऽऽत्मानं पवित्रीकृत्य राजा परिकरः पथि प्रभावनां कुर्वाणः श्रीपत्तनमाजगाम । प्रौढमहिम्ना नित्यं धर्मध्यानपरो दिनानि सफलयति । * ✡ कुमारपालचरित्रसङ्ग्रहः §§९७. अथ श्रीकुमारपालेन द्वासप्ततिसामन्ता भूपालाः स्वाज्ञां ग्राहिताः । 15 अष्टादशदेशेषु अमारिपटहो दापितः । चतुर्दशसु देशेषु अर्थबलेन मैत्रीबलेन च विनयेन च जीवरक्षा कारिता । १४४४ नवीनप्रासादेषु कलशाधिरोपणं कारितम् । १६००० जीर्णोद्धारेषु कलशध्वजारोहोऽकारि । सप्तभिस्तीर्थयात्राभिरात्मा पवित्रितः । एकविंशति ज्ञानकोशलेखनम् । द्वासप्ततिलक्षमृतकद्रव्यपत्रं फाटितवान् । ९८ लक्षप्रमाणं द्रव्यमौचित्ये दत्तम् । परमार्हतबिरुदं लब्धम् । आजन्मपरनारीसहोदरबिरुदं च । सप्तव्यसनानि 20 निवारितानि । श्रीसङ्घभक्ति-साधार्मिकवात्सल्य-त्रिर्जिनार्चा- द्विरावश्यक-पर्वदिनपौषधा दान- शासनप्रभावना- - दीनोद्धार - परोपकारादिपुण्यकृत्यान्यनेकधा कृतानि । 1. B ० पालदेवेन द्वासप्ततिसामन्तभू० । 2. B पाटितम् । • 'कारिता । १४४४न० इत्येतत्पाठस्थाने 'कारिता । देशनामानि - कर्णाट गुर्जरे लाटे, सौराष्ट्रे कच्छसैन्धवे । उच्चायां चैव भम्भेर्यां, मारवे मालवे तथा ॥१॥ कोङ्कणे च तथा राष्ट्रे, कीरे जालन्धरे पुनः । सपादलक्षे मेवाडे, दीपे जालन्धरेऽपि च ||२|| जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ||३|| १४४४० B प्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy