________________
२०५
कुमारपालप्रबोधप्रबन्धः । प्रमुदितो राजा । अवारितान्नदानयाचकसत्काराः प्रवर्त्तन्ते ।
६६९५. मालोद्घट्टनप्रस्तावे उदयनसुतादिमहापुरुषसङ्घश्रेणिभृते धर्मशिलायां महं वाग्भट: प्रथमं लक्षचतुष्कमवदत् । प्रच्छन्नधार्मिकः कश्चित् कथापयत्यष्टौ लक्षाः । एवमन्योन्येष्वीश्वरेषु वर्द्धयत्सु कश्चित् सपादकोटी चकार । चमत्कृतो राजोवाच'उत्थाप्यतां स यो गृह्णाति' । उत्थितः स यावत् दृश्यते तावद् बादरमलिनवसनो 5 वणिगरूपो विलोकितः । राज्ञा वाग्भटो भाषितः-'द्रव्यसुस्थं कृत्वा देहि' । श्रीवाग्भटो वणिजा सहोत्थाय द्रव्यसुस्थं पप्रच्छ । वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितम् । मन्त्रिणा पृष्टम्- 'कुत इदं ते ?'। वणिगाह- 'महूअकवास्तव्यो मत्पिता हंसाख्यः सौराष्ट्रिकः प्राग्वाटान्वयः । अहं तदभूर्जगडः । माता मे धारूनाम्नी । मत्पित्रा निधनसमयेऽहं भाषित:- "वत्स ! चिरं कृताः प्रवहणयात्रा: । फलिताश्च मे । मेलितं धनं 10 तेन च प्रत्येकं सपादकोटिमूल्यं माणिक्यपञ्चकम् । अधुना प्रभुऋषभचरणौ शरणं मे । अनशनं प्रतिपन्नम् । क्षमिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं श्रीनेमिनाथाय, एकं चन्द्रप्रभाय, माणिक्यद्वयमात्मनोऽन्तिके दध्याः ।" मामिति निगद्य गतः परलोकं पिता । तज्जनकवचनसमर्थनाय जनन्याः सहाहमागतः । सा कपर्दिभुवने मुक्ताऽस्ति । तामष्टषष्टितीर्थाधिकां मालां परिधापयिष्यामि ।' श्रुत्वा हृष्टो राजा मन्त्री 15 सङ्घश्च । मालापरिधानं कृतं तेन जगडेन वणिजा । तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणं राजा कारयामास । महापूजावसरे चारण: पपाठ
५२८. इक्कह फुल्लह माटि देयइ जु नरसुरसिवसुहइ ।
___ एही करइ कु साटि कट भोलिम जिणवरतणी ॥ नवकृत्वः पठने नवलक्षदानं द्रम्माणाम् । आरात्रिकावसरे महादानम् ।।
६६९६. ततो राजा स्वं कृतार्थं मन्यमानः, कृत्वा अमानमहिमानं श्रीरैवतदैवतं मनस्याध्याय सपरिकरस्तद्दिशं प्रति प्रयाणमकरोत् । पथि च वृक्षानपि पट्टकूलपरिधापनिकया सन्मानयन् रैवतासन्ने समायाते, अकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमचन्द्राचार्या नृपं प्राहु:-'इयं छत्रशिला युगपदुपेतयोर्द्वयोः पुण्यवतोरुपरि 25 पतिष्यति ।' इति वृद्धपरम्परा । तदावां पुण्यवन्तौ, यदियं गी: सत्या भवति, तदा लोकापवादः । नृपतिरेव दैवं नमस्करोतु, न वयम्'- इत्युक्ते नृपतिनोपरुध्य प्रभव एव सङ्घन सह प्रेषिताः, न स्वयम् । छत्रशिलामार्ग परिहत्य परस्मिन् मार्गे जीर्णप्राकारपक्षेन श्रीवाग्भटकारितपद्यां चटितः । तत्र स्नात्रविधिपूर्वकं स्नात्रपूजादानं सर्वस्थानेषु ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org