________________
२०४
कुमारपालचरित्रसङ्ग्रहः ललाटं दधानो मन्त्रिवाग्भटेन साकं साध्वसध्वस्तसङ्घाधिपत्यमनोरथः प्रभोः पदान्ते स्वं निनिन्द । ५२६. श्रेयांसि बहुविध्नानि भवन्ति महतामपि ।।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ अथ नृपतेस्तस्मिन् महाभये समुपस्थिते किञ्चिदवधार्य 'द्वादशे यामे भवतो निवृत्तिर्भविष्यति' इति आदिश्य विसृष्टो नृपः । किङ्कर्त्तव्यमूढो यावदास्ते, तावन्निर्णीतवेलासमागतनरयुग्मेन ‘श्रीकर्णो दिवङ्गतः' इति विज्ञप्तः । ताम्बूलमृत्सृज्य कथमिति पृष्टौ तौ ऊचतुः- 'कुम्भिकुम्भस्थलस्थः श्रीकर्णो निशि प्रयाणं कुर्वन् निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टवटशालपादेन उल्लम्बित: 10 पञ्चतामञ्चितवान् । तस्य संस्कारानन्तरमावां चलितौ'- इति ताभ्यां विज्ञप्ते तत्कालं द्वासप्ततिमहासामन्तैः समं राजा श्रीतीर्थयात्राभेरीमवादयत् । सर्वदेशेषु कुङ्कमपत्रिका: प्रेषीत् । तत्रः श्रीसङ्घमेलापके स्वगजाश्वरथपत्तिपरिवृता द्वासप्ततिसामन्ताः, मन्त्री वाग्भट:, २४ प्रासादकारको नृपमान्यो नागश्रेष्ठिसुत आभडः, षड्भाषाकविचक्रवर्ती
श्रीपालस्तत्पुत्रः सिद्धपालः, कवीनां दातॄणां च धुर्यो भाण्डागारिक: कपर्दी, 15 प्रह्लादनपुरनिवेशको राणप्रह्लादनः, ९९ लक्षसुवर्णस्वामी श्रेष्ठी छाडाकः, राज
दौहित्रिक: प्रतापमल्लः, १८०० व्यवहारिणः, श्रीहेमसूरयः । अन्येऽपि लोका ग्रामनगरस्थाननिवासिनो बहवः । षड्दर्शनानि । बहवो बन्दिजनाः । स्थाने स्थाने प्रभावना, जिने जिने छत्र-चामरादिप्रदानम् । स्थाने स्थाने सत्पात्रपूजा । याचकानां मनोवाञ्छिता सिद्धिः । एवं परिवृतो प्रभुणा द्विधोपदिश्यमानवम॑ना धुन्धुकपुरे प्राप्तः । 20 प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणे झोलिकाविहारे प्रभावनां विधित्सुर्जातिपिशुनानां द्विजातीनामुदितमुपसर्गं वीक्ष्य तान् विषयताडितान् कुर्वन् श्रीशत्रुञ्जयतीर्थं प्राप । पादचारेण पर्वताधिरोहणम् । श्रीजिनेन्द्रप्रासादद्वारे सपादसेतिकामौक्तिकैः प्रासादद्वारवर्धापनकम् । मध्ये प्रदक्षिणात्रयम् । प्रथमपूजायां नवाङ्गेषु नवरत्नानि लक्षमूल्यानि । अष्टाह्निकामहोत्सवः । सुवर्ण-रूप्यादिसप्तध्वजाप्रदानम् । चैत्यपरिपाट्यां 25 वामहस्तं श्रीगुरूणां हस्ते लग्नं वीक्ष्य महं कपर्दी प्राह५२७. श्रीचौलुक्य ! स दक्षिणस्तव करः पूर्वं समासूत्रित
प्राणिप्राणविघातपातकसखः शुद्धो जिनेन्द्रार्चनात् । वामोऽप्येष तथैव पातकसखः शुद्धि कथं प्राप्नुयात् न स्पृश्येत करेण चेत् यतिपते: श्रीहेमसूरिप्रभोः ॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only