________________
२०२
कुमारपालचरित्रसङ्ग्रहः भवति । कल्की दत्तो नाम तीर्थं सपूजं कारयिष्यति । तत्पुत्रो मेघघोषश्चोद्धारम् । ततः २२१४ अनन्तरम्५२१. नंदीसूरि अज्जे सिरिप्पभे माणिभद्द-जसमित्ते ।
धणमित्त-धम्मवियडे सुमंगले सूरसेणे य ॥ ५२२. एए होही उद्धारकारया जाव सूरिदुप्पसहो ।
पच्छिमउद्धारकरो होही इह विमलवाहणओ ॥ ५२३. वुच्छिन्ने वि य तित्थे होही कूडं तु उसहसामिस्स ।
जा पउमनाहतित्थं सुराइकयपूयसंजुत्तं ॥ -इति तीर्थमहिमा ।
88९३. अथ राजन् ! रैवतकतीर्थमपि महासुप्रभावं प्रत्यासन्नं च वर्त्तते । 10 * अस्य महिमा श्रीविद्याप्राभृते तीर्थमाहात्म्ये गणधरैरुक्तः । श्रीभारत्या काञ्चन
बलानके श्रीनेम्यादिमूर्तिनमस्करणागतया नारदस्य पुरः प्रोक्तस्तेन च लिखितः । इदं तीर्थमनादियुगीनमाहुः । अवप्पिण्यामयं शैलः षड्विंशति-विंशति-षोडश-दशद्वियोजनधनुःशतोच्चशिराः । अनादिकाले यस्मिन्नर्हन्तोऽनन्तसिद्धाः । यस्याकारं
सुरासुरनरेशास्त्रिभुवनेऽपि पूज्यन्ति । अनन्ततीर्थकृतामत्र कल्याणकत्रयमभूत् । अतीत15 चतुर्विशतिकायां नमीश्वराद्यानामष्टजिनानां कल्याणकत्रयमभूत् । अस्यां श्रीनेमिनाथस्य ।
श्रीपद्मनाभाद्या द्वाविंशतिजिना इह सेत्स्यन्ति । इयं मूर्तिर्ब्रह्मेन्द्रकृताऽस्या विंशतिसागरोपमकोट्योऽभूवन् । श्रीऋषभादेशात् भविष्यतो नेमेर्मूत्तिमी रूप्या च भरतेन पूर्व स्थापिता रत्नमयी चेन्द्रार्पिता । अस्यान्तःकाञ्चनबलानके शक्रनिर्मिते रत्नमूर्तिरस्ति
शक्रकृता । शक्रकृतं गजेन्द्रपदकुण्डं सर्वर्तुकं भद्रशालवनं पूजार्थम्, पञ्चमारकपर्यन्ते 20 श्रीनेमिमूर्तिः स्वर्गे सुरेन्द्रपूज्या भविष्यति, उत्सप्पिण्यां पुनरत्र । यस्य ध्यानेनान्यत्रापि स्थिता भव्या भवचतुष्केन मोक्षं यान्ति । इदं तीर्थं सर्वदा सुरासुराच॑म् । तथा श्रीभद्रबाहुप्रणीतं श्रीवज्रस्वामिनोद्धृतं स्वरूपमिदम्
"छत्तसिलाए सिलासणे दिक्खं पडिवन्नो नेमी । सहसंबणे केवलनाणं । लक्खारामे देसणा । अवलोयणाउच्चसिहरे निव्वाणं । रेवयमेहलाए कण्हो तत्थ 25 कल्लाणतिगं नाऊण सुवण-रयणपडिमालंकियं चेईयतिगं, अंबादेविं च करावेइ । इंदो वि गिरिं कारिऊण सुवन्नवन्नं बलाणयं रुप्पमयं चेईयं रयणमया पडिमा
__ 1. B कल्किपुत्रो दत्तो । 2. B २२१४ वर्षान० । 3. B इति श्रीशत्रुञ्जयतीर्थ० | ★ 'अस्य' इत्यत आरभ्य षडोत्तरद्विशततमपत्रस्य त्रयोदशीपङक्तिपर्यन्तः पाठ: B प्रतौ पञ्चपञ्चाशततमपत्रानुपलब्धे!पलब्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.