________________
l'inli
कुमारपालप्रबोधप्रबन्धः ।
२०१ श्रीविद्याप्राभृते तु श्रीशत्रुञ्जयस्यैकविंशतिनामानि प्रोक्तानि । विमलगिरिः १. मुक्तिनिलयः २. श्रीशत्रुञ्जयः ३. सिद्धिक्षेत्रम् ४. पुण्डरीकः ५. सिद्धशेखरः ६. सिद्धपर्वतः ७. सिद्धराजः ८. बाहुबलि: ९. मरुदेवः १०. भगीरथः ११. सहस्रपत्रः १२. शतपत्रः १३. अष्टोत्तरशतकूट: १४. नगाधिराजः १५. सहस्रकमलः १६. ढङ्कः १७. कपर्दिनिवासः १८. लौहित्यः १९. तालध्वजः २०. कदम्ब: २१. इति देव-मनुष्यकृतानि 5 नामानि । श्रीभद्रबाहुस्वामिना प्रणीते, श्रीवज्रस्वामिनोद्धृते, ततः श्रीपादलिप्ताचार्येण सङ्क्षिप्तीकृते श्रीशत्रुञ्जयकल्पेऽप्युक्तम्-योऽवप्पिण्यां षट्सु अरकेषु अशीतिसप्तति-षष्टि-पञ्चाशत्-द्वादशयोजन-सप्तकरप्रमोऽभूत् । उत्सप्पिण्यां पुनरुपचीयमानः । यस्मिन्नसङ्ख्याता ऋषभसेनाद्यास्तीर्थंकराः समवसृताः । श्रीपद्मनाभमुख्यास्तीर्थकरा: समेष्यन्ति । श्रीनेमिवर्जास्त्रयोविंशति ऋषभाद्याः समवसृताः । महाविदेहनिवासिनोऽपि 10 सम्यग्दृष्टयो लोका मानसिकभावेन नित्यं स्मरणं कुर्वन्तीति । प्रथमं श्रीऋषभकेवलोदयाद् भरतेन प्रमाणोपेतं रत्नमयं हैमं रूप्यं च बिम्बत्रयं कारितम् । द्वाविंशतिदेवकुलिकाकलितं हैमचैत्यं च । ततोऽसङ्ख्या उद्धारा जाताः, प्रतिमाश्च असङ्ख्याताः, कोटाकोट्यश्च सिद्धाः । पुण्डरीकगणधरः पञ्चकोटिभिः सह मुक्तिं गतः । द्रविडवालिखिल्लादयो दशकोटिभिः । नमि-विनमी विद्याधरौ कोटिद्वयेन । श्रीऋषभसन्ताने 15 भरतेश्वरराज्ये आदित्ययशा महायशा अतिबल: बलभद्रः बलवीर्यः कार्तवीर्यः जलवीर्यः दण्डवीर्यस्त्रिखण्डभोक्तारः प्रथमसङ्घाधिपतिश्रीभरतेश्वरवत् प्राप्तसङ्घाधिपत्या आदर्शभवनप्राप्तकेवलज्ञाना बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः । अन्येऽपीक्ष्वाकुवंशराजान आदित्ययशाद्याः सगरपर्यन्ताः पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्धयन्तरचतुर्दशलक्षादिश्रेणीभिरसङ्ख्याताभिरत्र मुक्तिं गताः । श्रीरामादीनां 20 कोटित्रयं सिद्धम् । पाण्डवादीनां विंशतिकोटयः । प्रद्युम्न-शाम्बादीनां सार्धष्टौ कोटयः। नारदाद्याः एकनवतिलक्षाः । अत्रैवाजित-शान्तिजिनौ वर्षाकालमवस्थितौ । मरुदेवी(वा)चैत्यं स्वर्णमयं पुरा बाहुबलिना कारितम् । मरुदेवी(वा)समीपे शान्तिचैत्यं पुरा सुवर्णमयम्, तदने त्रिंशता हस्तैरधः पुरुषसप्तकेन सुवर्ण-रूप्यखानिद्वयम् । ततो हस्तशतेन पूर्वद्वारा रसकूपिका । श्रीशान्तिचैत्याद् हस्ताष्टकेनोद्धारयोग्यं 25 सुवर्णं पादलिप्ताचार्योपदेशेन नागार्जुनेन स्थापितमस्तीति लोकोक्तिः । अष्टमतपसा तुष्टः कपर्दियक्षः श्रीभरतकारितां प्रतिमां वन्दापयति, यदि कश्चित् सत्त्ववानेकावतारी
1. B भागीरथः । 2. B ०मानो यावत् षष्ठारके ऽशीतियोजनविस्तीर्णो मूले भविष्यति । तस्मिन्नसङ्ख्याता अतीता ऋषभ० । 3. B .चैत्याधस्ताद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org