________________
कुमारपालप्रबोधप्रबन्धः ।
१६७ ४२१. जीवस्स अत्तजणिएहिं चेव कम्मेहिं पुव्वबद्धस्स ।
सव्वविओगो जो देण तस्स अह इत्तिओ मुक्खो ॥ तस्य च सत्पदप्ररूपणायाम्-सत् विद्यमानं मोक्ष इति पदम्, शुद्धशब्दवाच्यत्वात् । नत्वसत् अविद्यमानं वन्ध्यास्तनन्धय-गगनकुशेशय-खरविषाणादिवदशुद्धशब्दवाच्यम् । यदुक्तम् -
5 ४२२. चइऊणं संकपयं सारपयमिणं दढेण चित्तव्वं ।
अस्थि जओ परमपयं जयणा जा रागदोसेहिं ॥ गत्यादिषु मार्गणास्थानेषु चिन्त्यमानं नरगतौ १, एवं पञ्चेन्द्रियत्वे २, त्रसत्वे ३, भव्यत्वे ४, सञ्जित्वे ५, यथाख्यातचारित्रे ६, क्षायिकसम्यक्त्वे ७, अनाहारकत्वे ८, केवलज्ञानदर्शने ९ च । मोक्षपदं न शेषेषु । द्रव्यप्रमाणचिन्तायां सिद्धानामनन्तानि 10 जीवद्रव्याणि गृहान्तःप्रदीपितदीपशतसहस्रप्रभावदन्योऽन्यं समवगाढानि सन्ति । यदुक्तम्४२३. जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का ।
अन्नुन्नसमोगाढा पुट्ठा सव्वे वि लोगंते ॥ ४२४. फुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो ।
ते वि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा ॥ क्षेत्रं चतुर्दशरज्ज्वात्मकलोकाग्रं पञ्चचत्वारिंशद्योजनलक्षप्रमाणसिद्धिशिलारूपम् । यदुक्तम् - ४२५. पणयाललक्खजोयणविक्खंभा सिद्धसिल फलिहविमला ।
तदुवरिगजोअणंते लोगंतो तत्थ सिद्धठिई ॥ अथवा चरमभवशरीरप्रमाणात्तृतीयभागोनावगाहनारूपं क्षेत्रम् । यदुक्तम् - 20 ४२६. दीहं वा हस्सं वा जं चरमभवे हविज्ज संठाणं ।
तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया ॥ क्षेत्रात् स्पर्शनाधिका षट्सु दिक्षु स्पर्शनाधिक्यात् । एकसिद्धमाश्रित्य कालः सादिरनन्तश्च, पश्चात् प्रतिपाताभावात् । सिद्धानां नान्तरं सर्वसंसारिकजीवानामनन्ततमे भागे सिद्धाः । सिद्धानां दर्शन-ज्ञाने क्षायिके भावे, जीवितं तु पारिणामिके भावे । 25 सर्वस्तोका नपुंसकसिद्धाः, ततोऽसङ्ख्यातगुणाः स्त्रीसिद्धाः; ततोऽपि पुरुषसिद्धारसङ्ख्यातगुणाः ।
15
1. A ईतिओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org