________________
१६६
5 - इति द्वादशधा तपो । [ अथ] निर्जरातत्त्वम्
15
४१७. दव्वे भावे य तहा दुहा विसग्गो चउव्विहो दव्वे । गणदेहवहिभत्ते भावे कोहाइ काओ त्ति ॥ ४१८. काले गणदेहाणं अतिरित्ता सुद्धभत्तपाणाणं । कोहाइयाण सययं कायव्वो होइ चाओ त्ति ॥
४१९. यया कर्माणि शीर्यन्ते बीजभूतानि जन्मतः । प्रणीता ज्ञानिभिः सेयं निर्जरा शीर्णबन्धनैः ॥
✡
§§५५. अथ राजन् ! बन्धतत्त्वम् -अञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरं पुद्गल - 10 निचिते लोके हेतुभिर्मिथ्यात्वाविरतिकषाययोगादिभिः सामान्यैः प्रत्यनीकत्वनिह्नवत्वादिविशेष-रूपैश्च कर्मयोग्यवर्गणापुद्गलैः सङ्गृहीतैरात्मनो वह्न्यय: पिण्डवदन्योन्यानुगमात्मकः सम्बन्धो बन्धः । स च चतुर्विधो यथा - प्रकृतिबन्धः १ स्थितिबन्धः २, रसबन्धः ३, प्रदेशबन्धः ४ ।
Jain Education International
कुमारपालचरित्रसङ्ग्रहः
४२०. प्रकृतिः परिणामः स्यात्, स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः ; प्रदेशो दलसञ्चयः ॥
प्रकृति- स्थित्यादीनाश्रित्य मोदकदृष्टान्तो यथा- कश्चिन्मोदको वातनाशिद्रव्यनिष्पन्नः प्रकृत्या वातमपहरति पित्तापहारिद्रव्यनिष्पन्नः पित्तम्, श्लेष्मापनायिद्रव्यकृतः श्लेष्माणम् । स्थित्या तु स एव कश्चिद्दिनमेकमवतिष्ठते, अपरस्तु दिनद्वयम्, यावन्मासादिकमपि कश्चित् । अनुभागेनापि स्निग्धमधुरत्वं लक्षणेन स एव कश्चिदेक20 गुणानुभागोऽपरस्तु द्विगुणानुभागः इत्यादि । प्रदेशाश्च कणिक्कादिरूपाः । तैः स एव कश्चिदेकप्रसृतिमानोऽपरस्तु द्व्यादिप्रसृतिमानः । एवं कर्मापि किञ्चित् प्रकृत्या ज्ञानाच्छादकम्, किञ्चिद् दर्शनाच्छादकमित्यादि । स्थितिस्त्रिंशत्सागरोपमकोटाकोट्यादिका । तस्य रस एकस्थानादिः । प्रदेशा अनन्ताणुरूपाः । एवं कर्मग्रन्थानुसारेण सविस्तरं बन्धतत्त्वं ज्ञेयम् ।
-
25 §§५६. अथ मोक्षतत्त्वम् - तत्रात्मनः स्वरूपावरणीयानां कर्मणां क्षयात् यः स्वरूपलाभः स मोक्षः । स च तादात्म्येन सम्बद्धयोर्जीवकर्मणोः पृथक्करणं कर्मक्षयः; न तु सर्वथा क्षयः, कर्मपुद्गलानां नित्यत्वात् । यदुक्तम्
For Private & Personal Use Only
www.jainelibrary.org