________________
१६०
कुमारपालचरित्रसङ्ग्रहः वल्ल्यः फलानि पत्रैश्छादयन्ति | ७| लोभसञ्ज्ञाऽधस्थे निधाने वृक्षस्य प्ररोहसम्भवात् ICI लोकसञ्ज्ञा कमल - शम्यादीनां रात्रौ सङ्कोचः | ९| ओघसञ्ज्ञा वल्ल्यो मार्गं त्यक्त्वा वृक्षानाश्रयन्ति ।१०। इयं दशधाऽप्येकेन्द्रियाणाम् । यया तु इष्टानिष्टेषु छायातपादिवस्तुषु स्वदेहपालनाहेतोः प्रवृत्ति - निवृत्ती विधत्ते सा हेतुवादोपदेशिकी । इयं तु द्वि-त्रि- चतुः 5 पञ्चेन्द्रियाणाम् । एषा सामान्यसञ्ज्ञा स्वरूपत्वात् स्तोका, तथाभूताऽपि मोहोदयजन्यत्वादशोभनाऽतो नानयाऽधिकारः । किन्तु महत्या शोभनया विशिष्टज्ञानावरणकर्मक्षयोपशमजन्या मनोज्ञानसञ्ज्ञयैवेति । यया दीर्घमपि कालमतीतमर्थं स्मरति, भविष्यच्च वस्तु चिन्तयति, कथं तु नाम कर्त्तव्यम (मि)ति दीर्घकालव्युपदेशिकी । इयं च सुर-नारक- गर्भजमनुष्य- तिरश्चां मनः पर्याप्त्या पर्याप्तानां स्यात् । यया तु 10हिताहितप्राप्ति-परिहारौ सम्यग्दृष्टिसाध्यौ क्रियेते सा दृष्टिवादोपदेशिकी । इयं सम्यग्दृष्टेरेव भवति । यदुक्तम्
15
20
25
३७३. पंचण्हं मोहसन्ना हेऊसन्ना बिइंदियाईणं । सुरनारयगब्भुब्भवजीवाणं कालिकी सन्ना ॥
Jain Education International
३७४. छउमत्थाणं सन्ना सम्मद्दिट्ठीण दिट्टियाईया | मइवावारविमुक्का सन्नाईआओ केवलिणो ॥
सञ्ज्ञाऽस्यास्तीति सञ्ज्ञी । पञ्चेन्द्रियो मनः पर्याप्त्या पर्याप्तः । इतरे पृथ्वादय एकेन्द्रियाः, विकलेन्द्रियाः, समूच्छिमपञ्चेन्द्रियाश्चासञ्ज्ञिनः । एवमेकेन्द्रियाः सूक्ष्मबादः |२| द्वि-त्रि- चतुरिन्द्रियाः । ३। असञ्ज्ञिसञ्ज्ञिपञ्चेन्द्रियाश्च |२| सर्वे सप्तापि भेदाः पर्याप्तापर्याप्तभेदाच्चतुर्दशधा संसारिजीवाः । पर्याप्तयस्त्विमा:
३७५. आहारसरिरिंदीयपज्जत्ती आणपाणभासमणे । चड पंच पंच छप्पिय इगविगला - सन्निसन्नीणं ॥ ३७६. पत्तेयतरुं मुत्तुं पंच वि पुढवाइणो सयललोए । सुहमा वसंति नियमा अंतमुहुत्ताउ अहिस्सा ॥ ३७७. एगिंदिय पंचिंदिय उड्ढे य अहे य तिरियलोए अ । विगलिंदियजीवा पुण तिरियलोए मुणेयव्वा ॥ ३७८. पुढवी आउ वणस्सइ बारसकप्पेसु सत्तढवी । पुढवी जा सिद्धिसिला तेऊ नरखित्ति तिरिलोए ॥ *
1. B ०पदेशिकी सञ्ज्ञा ।
★ ३७८ तमीगाथानन्तरम् 'वायुः सर्वत्र' इति B आदर्शे टिप्पणी ।
For Private & Personal Use Only
www.jainelibrary.org