________________
कुमारपालप्रबोधप्रबन्धः ।
१५३ तत्र पञ्चोदुम्बरी वटपिप्पलप्लक्षकाकोदुम्बरीफलरूपा सा मसकाकारसूक्ष्मबहुजीवभृतत्वाद् वर्जनीया ॥५॥ चतस्रो विकृतयः- मद्य-मांस-मधु-नवनीतरूपा, सद्य एव तत्रानेकजीवसम्मूर्च्छनात् ।।९।। हिमं शुद्धासङ्ख्याप्कायरूपत्वात् ॥१०॥ विषं जीवघातादिसम्भवात् ॥११॥ करका अप्कायासङ्ख्यत्वात् ॥१२॥ मृत्तिका सर्वापि दर्दुरादिपञ्चेन्द्रियप्राणिउत्पत्तिनिमित्तत्वात्, सर्वग्रहणं खटिकादीनाम् ॥१३॥ रजनीभोजनं 5 बहुविधजीवहिंसाप्रदम् ॥१४॥ बहुबीजं पम्पोटकादि प्रतिबीजं जीवोपमर्दकम् ॥१५॥ [अनन्तकायं ] अनन्तजीववधहेतुत्वात् ॥१६॥ सन्धानं बिल्वकादीनां जीवसंसक्तिहेतुत्वात् ।।१७|घोलवटकानि आमगोरससंसक्तद्विदलादिमध्ये सूक्ष्मजीवोत्पत्तिः केवलिदृष्टत्वात् ॥१८॥ वृन्ताकानि निद्राबाहुल्यकामोद्दीपनादिदोषदुष्टत्वात् ॥१९॥ अज्ञातफलपुष्पाणि नियमभङ्गसम्भवात्, विषफले पुष्पे मृत्युरपि ॥२०॥ तुच्छफलमर्द्धनिष्पन्नं 10 कोमलाम्बिलियादि ॥२१॥ चलितरसं कुथितान्नं पुष्पितौदनादि, दिनद्वितयातीतं च दधि वर्जनीयं प्राणातिपातादिदोषसम्भवात् ॥२२॥ एतान्यभक्ष्याणि ।।
____ अथ कर्मतो भोगोपभोगः । अङ्गारकर्म-वनकर्म-शकट-भाटक-स्फोटकदन्तवाणिज्य-लाक्षा-रस-केश-विष-यन्त्रपीडा-निर्लाञ्छन-असतीपोष-दवदान-सर:शोषः - इति कर्मादानानि वर्जयेत् । तदा राजा श्रीकुमारपालः श्रीगुरुमुखेन परिग्रहप्रमाणं 15 भोगपभोगव्रतस्याकरोत् । अथानर्थदण्डव्रतमाहुः३१४. आर्तरौद्रमपध्यानं पापकर्मोपदेशता ।
हिंसोपकारि दानं च प्रमादाचरणं तथा ॥ तत्र ध्यानं चतुर्द्धा३१५. आर्ते तिर्यग्ग( ? )तिस्तथा गतिरधो ध्याने तु रौद्रे सदा,
धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः । तस्माद् व्याधिरुजान्तिके हितकरे संसारनिस्तारके;
ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः ॥ ३१६. वृषभान् दमय क्षेत्रं कृषिषण्डविवाजिनाम् ( कृष षण्ढय वाजिनः)। 25
दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ 1. B पिप्पलोदुम्बरप्लक्ष० । 2. B ०दिग्रहार्थम् ॥१३|| 3. B तिः सुमानवगतिः शुक्ले । 4. B रुगन्तके।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org