SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १५० कुमारपालचरित्रसङ्ग्रहः २८३. यत:- तत्तायगोलकप्पोऽपमत्तजीवो णिवारियप्पसरो । सव्वत्थ किं न कुज्जा पावं तक्कारणाणुगओ ॥ २८४. जगदाक्रममाणस्य प्रसरलोभवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृताः ॥ 5 अथ द्वितीयगुणव्रतम् २८५. भोगोपभोगयोः सङ्ख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तु द्वितीयीकं गुणवतम् ॥ २८६. सकृदेव भुज्यते यः स भोगोऽन्नसृगादिकः । पुनःपुनर्भोग्योपभोगोऽङ्गनादिकः ॥ 10 २८७. मद्यमांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥ तत्र मद्यं द्विधा-काष्ठ-पिष्टनिष्पन्नम्, मांसं त्रिधा-जल-स्थल-खेचरभेदात् । नवनीतं गोमहिष्यजे(जै)डकाभेदाच्चतुर्धा । मधु त्रिधा-माक्षिकं भ्रामरं कौत्तिकं चेति । २८८. रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥ २८९. असत्यं वचनं ब्रूते मद्यमोहितमानसः । अदत्तं धनमादत्ते बलाद् भुङ्क्ते परस्त्रियम् ॥ २९०. विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्वं नृणां वह्निकणादिव ॥ 15 20 २९१. अथ- चिखादयति यो भांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ २९२. सद्यः सम्मूछितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ॥ २९३. अहो मूढजना धर्मं शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमश्नन्ति चाधमाः ॥ 25 1. B पुत्तिकं । 2. B अथ मांसं चि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy