________________
कुमारपालप्रबोधप्रबन्धः ।
अथ चतुर्थव्रतम्
२७३. षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् स्वदारसन्तुष्टो योऽन्यदारान् विवर्जयेत् ॥ २७४. रम्यमापातमात्रं यत् परिणमति दारुणम् ।
किम्पाकफलसङ्काशं तत् कः सेवेत मैथुनम् ॥ २७५. ब्रह्मचर्यं भवेद्येषां स्वाधीनं गृहिणामपि । धन्या जगत्सु तेऽवश्यं लभन्ते परमं पदम् ॥
अथ पञ्चमाणुव्रतं यथा
२७६. असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात् परिग्रहनियन्त्रणम् ॥ २७७. असन्तोषवतां सौख्यं न शक्रस्य न चक्रिणः । जन्तो: सन्तोषभाजो यदभयस्येव जायते ॥ २७८. न विश्वसिति कस्यापि परिग्रहविमूढधीः । षट्सु जीवनिकायेषु करोत्यारम्भमन्वहम् ॥ २७९. अनन्तदुःखं संसारे ततः प्राप्नोति मूढधीः । परिग्रहमहत्त्वेन परलोकपराङ्मुखः ॥
२८०. सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् ॥
इति श्रुत्वा श्रीकुमारपालः श्रीगुरुमुखेन यथाविधि पञ्चाणुव्रतीं जग्राह ।
✡
अथ गुणव्रतान्याहु:
२८१. दशस्वपि कृता दिक्षु यत्र सीमा न लङ्घ्यते । ख्यातं दिग्विरतिरिति प्रथमं तद्गुणव्रतम् ॥ २८२. चराचराणां जीवानां विमर्दनविवर्त्तनात् । तप्तायोगोलकल्पस्य सद्व्रतं गृहिणोऽप्यदः ॥
1. B ० मापातमात्रेण प० । 2. B असन्तोषवतः ।
Jain Education International
For Private & Personal Use Only
१४९
5
10
15
20
www.jainelibrary.org