________________
१४८
कुमारपालचरित्रसङ्ग्रहः
अथ राजाऽणुव्रतस्वरूपमपृच्छत् । श्रीसूरयः प्राहुः२६२. विरतिः स्थूलहिंसादेर्द्विविधस्त्रिविधादिना ।
अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥ २६३. पङ्कुष्ठिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः ।
निरागस्त्रसजन्तूनां हिंसामन्यस्य नाचरेत् ॥ २६४. मार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु ।
तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥ २६५. स्थूलेषु सर्वसत्त्वेषु यः करोति दयां त्रिधा ।
सूक्ष्मेषु यतनां कुर्वन् गृहस्थोऽपि स मुक्तिभाग् । 10 अथ द्वितीयाणुव्रतम्२६६. मन्मनत्वं काहलत्वं मूकत्वं मुखरोगताम् ।
वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ २६७. कन्यागोभूम्यलीकानि न्यासापहरणं तथा ।
कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥ २६८. असत्यं त्रिषु लोकेषु निन्दितं पापकारणम् ।
दुःखितास्तेन जायन्ते देवदानवमानवाः ॥ २६९. इह लोके गृहस्थोऽपि यशः प्राप्नोति निर्मलम् ।
__सत्येन परलोकेषु सुलभाः स्वर्गसम्पदः ॥ ____ अथ तृतीयाणुव्रतम्20 २७०. दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् ।
अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ २७१. दानशीलतपोभावैः कृतं धर्मं चतुर्विधम् ।
निष्फलं प्राणिनां सर्वं परद्रव्याभिलाषिणाम् ॥ २७२. गृहिणोऽपि हि धन्यास्ते माननीया महात्मनाम् । 25
कुर्वन्ति स्वकरे मुक्तिं ये परस्वपराङ्मुखाः ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.