SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १४७ कुमारपालप्रबोधप्रबन्धः । भक्तिः विनयवैयावृत्त्यरूपा । कौशलेनानार्यदेशवत्त्र्त्यार्द्रकुमारोऽभयकुमारेण प्रतिबोधितः । तीर्थसेवा च द्रव्यतीर्थं भावतीर्थं च । चैत्यादि द्रव्यतीर्थं, भावतीर्थं ध्यानादि । सम्यक्त्वलक्षणानि - २५५. शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥ शमः क्षमा १, संवेगो मोक्षाभिलाषः २, निर्वेदो भववैराग्यम् ३, अनुकम्पा चित्तस्यार्द्रता ४, आस्तिक्यं जिनमते दृढनिश्चयः ५ । अथ दूषणानि - ५। २५६. शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि सम्यक्त्वं दूषयन्त्यमी ॥ अथ सम्यक्त्वाद् विपरीतं मिथ्यात्वम् । तत्स्वरूपमाहुः । तत् पञ्चधा२५७. आभिग्गहियं अणभिग्गहियं आभिनिवेसियं चेव । सैंसइयमणाभोगं मिच्छत्तं पंचहा होइ ॥ २५८. आभिग्गहियं किल दिक्खियाण अणभिग्गहिअं तदितराणं । गुट्टामा हलमाईणतं अभिनिवेसियं जाण ॥ २५९. संसइयं मिच्छत्तं जा संका जिणवरस्स तत्तेसु । एगिंदियमाईणं तमणाभोगं तु निद्दिट्टं ॥ २६०. जन्मन्येकत्र दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्त्रेषु मिथ्यात्वमचिकित्सितम् ॥ इति मिथ्यात्वम् । तत्र प्रथमं पाखण्डिनां स्वस्वशास्त्रनिरतानाम् १, द्वितीयं सर्वे देवाः सर्वे गुरवः सर्वे धर्माश्च २, तृतीयस्तत्त्वातत्त्वजानतोऽप्यभिनिवेशात् प्ररूपणा ३, चतुर्थ संशयो जीवादितत्त्वेषु ४, अनाभोगिकं विवेकविचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य 20 5 Jain Education International 10 For Private & Personal Use Only 15 २६१. तथा - अंतोमुहुत्तमित्तं पि फासियं होज्ज जेहिं सम्मत्तं । सिं अवड्ढपुग्गल परियट्टो चेव संसारो ॥ 25 इति सम्यक्त्व-मिथ्यात्वयोः स्वरूपं श्रुत्वा राजा श्रीगुरुमुखेन सम्यक्त्वं जग्राह । ✡ www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy