SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १४६ कुमारपालचरित्रसङ्ग्रहः अत्रान्तरे कश्चिद् विद्वान् पपाठ - २४८. आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्याः, प्राप्यं ते यत्प्रभावादसुरसुरनराधीश्वरैः सम्पदस्ताः । आदेशा यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते; श्रीमान् जैनेन्द्रधर्मः किसलयतु वः शाश्वती मोक्षलक्ष्मीम् ॥ लक्षदानमत्रापि । इति धर्मलक्षणम् । इति तत्त्वत्रयी ज्ञाता सर्वैरपि । 10 15 श्रीकुमारपालभूपालोऽपि गृहस्थोचितं धर्ममपृच्छत् । श्रीगुरवः प्राहु:२४९. सम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम् ॥ अज्ञान-संशय-विपर्यासपरिहारेण यत् सम्यक् परमार्थरूपं तस्य भावः सम्यक्त्वम्। द्वादशव्रतानि गृहस्थानां धर्मः सम्यक्त्वमूलानि । एकविंशतिगुणयुक्तो धर्मयोग्यो भवति । २५०. अक्षुद्रो रूप-सौम्यौ विनय-नययुतः क्रूरता-शल्यमुक्तो, मध्यस्थो दीर्घदर्शी परहितनिरतो लैब्धलक्षः कृतज्ञः । सैद्दाक्षिण्यो विशेषी संदयगुणरुचिः सत्कथ: पंक्षयुक्तो; वैद्धार्हो लज्जनो यः शुभ नसुभगो धर्मरत्नस्य योग्यः ॥ २५१. या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधी शुद्धा सम्यक्त्वमिदमुच्यते ॥ २५२. सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ सम्यक्त्वभूषणानि२५३. स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चाशु भूषणानि प्रचक्षते ॥ स्थैर्य श्रीजिनधर्मे । प्रभावनाष्टधा25 २५४. पावयणी धम्मकही वाई निमित्तिओ तवस्सी य । विज्जासिद्धो य कवी अटेव पभावगा भणिया ॥ 1. B •न्तरेऽवसरपाठक: प० । 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy