SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १४४ कुमारपालचरित्रसङ्ग्रहः मानप्रतिपक्षो मार्दवम् । यदुक्तम् - २३२. मानग्रन्थिर्मनस्युच्चैर्यावदस्ति दृढो नृणाम् । तावद्विवेकमाणिक्यं प्राप्तमप्यपसर्पति ॥ 10 अथ नवमं धर्मलक्षणं ऋजुता मायारहितत्वमिति । यदुक्तम्२३३. कूटद्रव्यमिवासारं स्वप्नराज्यमिवाफलम् । अनुष्ठानं मनुष्याणां मन्ये मायाविलम्बिनाम् ॥ २३४. नृपाः कूटप्रयोगेण वणिजः कूटचेष्टितैः । विप्राः कूटक्रियाकाण्डैर्मुग्धं वञ्चयते जनम् ॥ __२३५. दम्पती पितरः पुत्राः सौदर्याः सुहृदो निजाः । ईशा भृत्यास्तथान्येऽपि माययाऽन्योऽन्यवञ्चकाः ॥ २३६. मायायां पटवः सर्वे जलस्थलखचारिणः । देवा मायापराः केऽपि नारकाश्च किमुच्यते ॥ २३७. अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ॥ २३८. अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन् अल्पीयोऽपि विवर्द्धयेत् ॥ मायाप्रतिपक्षभूता ऋजुता । 15 अथ राजन् ! दशमं धर्मलक्षणं मुक्तिः, सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । यदुक्तम्20 २३९. अहो लोभस्य साम्राज्यमेकच्छत्रं जगत्तये । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ 1. B मायावलम्बि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy