SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १४३ कुमारपालप्रबोधप्रबन्धः । २२६. वाक्येनैकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः ।। आशापिशाची शान्ता चेत् सम्प्राप्तं परमं पदम् ॥ एतानि पञ्च सर्वविरतत्वात् साधूनां महाव्रतान्युच्यन्ते । यदुक्तम् - २२७. महत्त्वहेतोर्गुणिभिः श्रुतानि महान्ति मत्वा त्रिदशैर्नुतानि । महासुखज्ञाननिबन्धनानि महाव्रतानीति सतां सतानि ॥ . 5 अथ राजन् ! षष्ठं धर्मलक्षणं तपः, बाह्याभ्यन्तरं द्वादशधा । बाह्यतप:- "अणसणमूणोयरिया० ॥११॥ आभ्यन्तरतपः "पायच्छित्तं विणओ वेया० ॥२॥" यदुक्तम्२२८. निर्जराकरणो बाह्यात् श्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ 10 २२९. यस्माद्विजपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यः कर्मणां; स्वाधीनं त्रिदिवं शिवं च भवति श्लाध्यं तपस्तन्न किम् ॥ सन्तोषः स्थूलमूल: शमपरिकरः स्कन्धबन्धप्रपञ्चः, पञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसम्पत्प्रवालः । श्रद्धाम्भ:पूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः; स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःपादपोऽयम् ॥ इति सकलदर्शनमान्यं तपोलक्षणम् । 15 अथ सप्तमं धर्मलक्षणं क्षमा सा च क्रोधत्यागाद् भवति । अथ राजन् ! अष्टमं धर्मलक्षणं मार्दवम् । तत्र मृदुत्वं मदनिग्रहाद् भवति । तथा- 20 २३१. जातिलाभकुलैश्वर्यबलरूपतप:श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ ★ 'भवति' इत्यस्य पश्चादधिकः पाठः-खंती सुहाण मूलं० BI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy