SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १४२ कुमारपालचरित्रसङ्ग्रहः अन्यैरप्युक्तम्२१४. एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । न सा ऋतुसहस्त्रेण प्राप्तुं शक्या युधिष्ठिर ! ॥ २१५. भोगिदष्टस्य जायन्ते वेगाः सप्तैव देहिनः । स्मर भोगीन्द्रदष्टानां दश स्युस्ते महाभयाः ॥ २१६. प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति । स्युस्तृतीयेऽपि निःश्वासाश्चतुर्थे नटते ज्वरः ॥ २१७. पञ्चमे दहते गात्रं षष्ठे भुक्तं न रोचते । सप्तमे स्यान्महामूर्छा उन्मत्तत्वमथाष्टमे ॥ २१८. नवमे प्राणसन्देहो दशमे मुच्यतेऽसुभिः । एभिर्दोषैः समाक्रान्तं जीवो लोकं न पश्यति ॥ २१९. यस्तपस्वी व्रती मौनी संवृतात्मा जितेन्द्रियः । कलयति निःशङ्क स्त्रीसखः सोऽपि संयमम् ॥ 10 15 __ अथ राजन् ! पञ्चमं धर्मलक्षणं अकिञ्चनतासन्तोषरूपम् २२०. धन-धान्यं-स्वर्णरूप्यकुंप्यानि-क्षेत्रवास्तुनी । द्विपाच्चतुष्पाद् चेति स्युर्नवबाह्याः परिग्रहाः ॥ २२१. मिच्छत्तं वेयतिगं हासाई छक्कगं न नायव्वं । कोहाईण चउक्कं चउदस अब्भंतरा गंथा ॥ २२२. बाह्यानपि हि यः सङ्गान्न मोक्तुं मानवः क्षमः । सोऽन्तरङ्गान् कथं क्लीबस्त्यजेदिह परिग्रहान् ॥ २२३. यानपात्रमिवाम्भोधौ गुणवानपि मज्जति । परिग्रहगुरुत्वेन संयमी जन्मसागरे ॥ २२४. न यान्ति वायवो यत्र नाप्यन्दुमरीचयः । आशामहोर्मयः पुंसां तत्र यान्ति निरर्गलाः ॥ 25 २२५. अधीती पण्डितः प्राज्ञः पापभीरुस्तपोधनः । स एव येन हित्वाशां नैराश्यमुररीकृतम् ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy