SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १४१ कुमारपालप्रबोधप्रबन्धः । अथ द्वितीयलक्षणं सत्यं नाम । तत् सत्यं दशधा२०५. जणवय संमय ठवणा नामे रूवे पडुच्चसच्चे य । ववहार-भाव जोगे दसमे उ कम्मसच्चे ॥ इति ॥ २०६. एकत्रासत्यजं पापं पापं निःशेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ २०७. दीक्षा भिक्षा गुरोः शिक्षा ज्ञानं ध्यानं जपस्तपः । __ सर्वं मोक्षार्थिनामेतत् सत्येन सफलीभवेत् ॥ अन्यैरप्युक्तम्२०८. यदा सत्यं वदेद् वाक्यं मृषाभाषाविवर्जितः । अनवद्यं च भाषेत ब्रह्म सम्पद्यते तदा ॥ 10 अथ राजन् ! तृतीयं धर्मलक्षणं अदत्तादानपरिहाररूपम् - २०९. अयशःपटहं दत्त्वा भुक्त्वा विविधवेदनाः । इह लोके नरकं यान्ति परलोकेऽदत्तहारिणः ॥ २१०. परद्रव्यं यदा दृष्ट्वा सङ्कुलेऽप्यथवा रहः । धर्मकामो न गृह्णाति ब्रह्म सम्पद्यते तदा ॥ २११. अदत्तदानेन भवेद्दरिद्री दारिद्र्यभावात्तु करोति पापम् । __ पापं हि कृत्वा नरकं प्रयाति पुनर्दरिद्री पुनरेव पापी ॥ 15 अथ राजन् ! चतुर्थ धर्मलक्षणं ब्रह्मचर्यरूपम् । यतः२१२. विदन्ति परमं ब्रह्म यत् समालम्ब्य योगिनः । तद् व्रतं ब्रह्मचर्यं स्यात् धीरधौरेयगोचरम् ॥ २१३. यः स्वदारेषु सन्तुष्टः परदारापराङ्मुखः । स गृही ब्रह्मचारी च मुक्तिमाप्नोति पुण्यवान् ॥ 1..B अथ धर्मस्य द्वि० । 2. B संयम । 3. B उण धम्म० । 4. B ब्रह्मचारीव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy