________________
5
कुमारपालचरित्रसङ्ग्रहः
तत्र पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रिया इति नवभेदा मनोवाक्कायैः सह गुणिता जाता: सप्तविंशतिर्भेदाः । ते च करणकारणानुमतिभिर्गुणिता जाता एकाशीतिः । ते चातीतानागतवर्त्तमानकालत्रयेण गुणिता जातास्त्रिचत्वारिंशद् द्वेशते सर्वे प्राणिवधभेदाः २४३ । कालत्रयेऽपि हिंसासम्भवोऽस्तीति कालत्रयग्रहणम् । यदुक्तम्
अइयं निदामि पडिपन्नं संवरेमि अणागयं पच्चक्खामि - इति । अथ राजन् ! आकर्ण्यतां जीवदयास्वरूपं संयमस्वरूपं च । तथा हि पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणानुमतिभिश्च संरम्भसमारम्भवर्जनमिति नवधा जीवसंयमः ९, पुस्तकवस्त्रपात्रदण्डकादीनां यतनया धरणमजीवसंयमः १०, स्थण्डिलादिकं चक्षुषा प्रेक्ष्य शयनासनादिकुर्वीतेति 10 प्रेक्षासंयमः ११, सावद्यप्रवृत्तगृहस्थाव्यापारणेनोपेक्षासंयमः १२, स्थण्डिलादौ रजोहरणादिना प्रमृज्य शयनासनादीनि कुर्वतः प्रमार्जनासंयमः १३, भक्तपानादिकमनेषणीयमनुपकारि च निर्जन्तुस्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः १४, मनसोऽशुभपरिणामनिवृत्तिः शुभप्रवृत्तिः मनः संयमः १५, अशुभभाषात्यागः शुभभाषाभाषणं वाक्संयमः १६, अशुभक्रियानिवृत्तिः शुभप्रवृत्ति: कायसंयमः १७, इति प्राणिदयारूप: 15 सप्तदशधा संयमो यतीनामन्यथा यतित्वाभावः ।
१४०
20
अथ राजा गृहस्थानां कथमयं संयम इत्यपृच्छत् । तदा श्रीसूरयः प्राहु:- 'राजन् ! देशतो विरतानां गृहस्थानां देशतः संयमोऽस्तीति श्रूयताम् । यथा
२०४. थूला सुहा हु )मा जीवा संकप्पारंभओ अ ते दुविहा । सवराहनिरवराहा साविक्खा चेव निरविक्खा ॥
तत्र प्राणिवधो द्विविधो ज्ञेयः, स्थूलजीवानां च । तत्र स्थूला द्वीन्द्रियादयः, सूक्ष्मास्त्वेकेन्द्रियाः, न तु सूक्ष्मनामकर्मोदयवर्त्तिनस्तेषां व्यापादनाभावात् स्वयमायुष्कक्षयेण मरणात् । तत्र गृहस्थानां स्थूलप्राणिवधान्निवृत्तिः न तु सूक्ष्मप्राणिवधात्, पृथ्वीजलानलादिषु प्रवृत्तत्वादारम्भास्तेषाम् । स्थूलप्राणिवधोऽपि द्विविध; सङ्कल्पज आरम्भजश्च । सङ्कल्पान्मारयाम्येनं कुलिङ्गिनमिति मनः सङ्कल्परूपाज्जातः । आरम्भजस्तु 25 कृष्यादिषु प्रवृत्तस्य द्वीन्द्रियादिव्यापादनं न तस्मान्निवृत्तः, शरीरकुटुम्बादिभरणनिर्वाहाभावात् । सङ्कल्पजोऽपि द्विविधः सापराधो निरपराधश्च । तत्र निरपराधान्निवृत्तिः, सापराधेऽपि जयणा विधेया । इति गृहस्थानामपि देशसंयमः ।
Jain Education International
✡
For Private & Personal Use Only
www.jainelibrary.org