SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । अत: १९४. यो दद्यात् काञ्चनं मेरुं कृत्स्नां चैव वसुन्धराम् । सागरं रत्नसम्पूर्णं न च तुल्यमहिंसया ॥ १९५. अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा तुल्यं मृत्युभयं द्वयोः ॥ १९६. यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः ॥ १९७. पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेऽप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् ॥ १९८. यो मां सर्वगतं ज्ञात्वा न च हिंस्येत् कदाचन । तस्याहं न प्रणश्यामि स च मां न प्रणश्यति ॥ इति विष्णुवाक्यम् । १९९. यत्र जीवः शिवस्तत्र इति यो वेत्ति भक्तितः । दया जीवेषु कुर्वाणः स शिवाराधकः स्मृतः ॥ २००. क्व मांसं क्व शिवे भक्तिं क्व मद्यं क्व शिवार्चनम् । मद्यमांसप्रसक्तानां दूरे तिष्ठति शङ्करः ॥ इति भगवद्गीतायाम् ( ? ) । २०१. यदा न कुरुते पापं सर्वभूतेषु दारुणम् । मनसा कर्मणा वाचा ब्रह्म सम्पद्यते तदा ॥ २०२. क्षमातुल्यं तपो नास्ति न सन्तोषात् परं सुखम् । न मैत्रीसदृशं दानं न धर्मोऽस्ति दयासमः ॥ - इति जीवदया सर्वेषां मता । ---- अथ जीवहिंसाभेदानाह २०३. नवहिं जियवहकरणं, कारावणं, अणुमई य जोगेहिं । कालतिएण गुणिओ पाणिवहो दुसयतेयालो ॥१॥ 1. B तुल्यं युधिष्ठिर ! ॥ 2. B समं । 3. B नास्ति तृष्णापरो व्याधिर्न । 4 B इति जीवदयां सर्वे वदन्ति । Jain Education International १३९ For Private & Personal Use Only 5 10 15 20 25 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy