SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १३८ कुमारपालचरित्रसङ्ग्रहः ये तु स्वरुचिकल्पिताचाराः परस्परविरोधाध्माता मत्सरिणः सदाचारनिन्दकाः कथं ते गुरवः । १८८. सर्वाभिलाषिणः सर्वभोजन( नाः )सपरिग्रहाः । अब्रह्मचारिमिथ्योपदेशका गुरवो न तु ॥ 5 श्रीमहाभारतेऽप्युक्तम् - १८९. ये शान्तदान्ताः श्रुतिपूर्णकर्णा, जितेन्द्रियाः प्राणिवधान्निवृत्ताः । परिग्रहे सङ्कुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ ततः श्रीहेमसूरयः सभायां गुरु-कुगुरुस्वरूपमभिधायावादिषुः १९०. प्रकाशयन्ति भूयांसो भुवनं भास्करादयः । 10 हार्द पुनस्तमो हन्ति गुरुरेव गुणैर्गुरुः ॥ अत्रान्तरे कश्चित् पपाठ - १९१. जीवोऽयं विमलस्वभावसुभगः सूर्योपलस्पर्द्धया, धत्ते सङ्गवशादनेकविकृतीलृप्तात्मरुपस्थितिः । यद्याप्नोति रवेरिवेह सुगुरोः सत्पादसेवाश्रमं; तज्जातोर्जिततेजसैव कुरुते कर्मेन्धनं भस्मसात् ॥ इति श्रुत्वा सर्वेऽपि दानं ददुः । इति गुरुतत्त्वं ज्ञेयम् । अथ राजा धर्मतत्त्वमपृच्छत् । श्रीसूरयः प्राहुः, तत्र प्रथमं धर्मलक्षणम् १९२. श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च ।। ___ अहिंसालक्षणो धर्मस्तद्विपक्षश्च पातकम् ॥ - 20 वेदादिप्रामाण्येन यत् हिंसा विधीयते तत्तेषां जाड्यलिङ्गम् । वेदस्यापौरुषेयत्वेना प्रमाणत्वात् । न प्रमाणं वेदमतम् । आप्ताधीना हि वाचां प्रमाणता । व्यासेनाप्युक्तम् - १९३. दीयते मार्यमाणस्य कोटिं जीवितमेव वा । धनकोटिं न गृह्णाति सर्वो जीवितमिच्छति ॥ 15 ★ ५-७ पङ्कित्रितयगतः पाठ B आदर्श नोपलभ्यते । 1. B ०न्तरेऽवसरपाठकः प० । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy