SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १३६ कुमारपालचरित्रसङ्ग्रहः १७३. प्रत्यक्षतो न भगवान् वृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः। तेषांस्वरूपगुणमागमसम्प्रदायात् ज्ञात्वा विचारयथकोऽत्र परापवादः॥१॥ १७४. माया नास्ति जटाकपालमुकुट: चन्द्रो न मूर्द्धावली, खट्वाङ्गं न च वासुकिन च धनुः शूलं न चोग्रं मुखम् । कामो यस्य न कामिनी न च वृषो गीतं न नृत्यं पुनः, सोऽयं पातु निरञ्जनो जिनपतिर्देवाधिदेवः परः ॥२॥ राजन्नेवंविधेऽपि भगवति निर्दोषे श्रीजिनेन्द्रे यत् परब्रह्मवादिनो मत्सरिणः स्युः, तत् स्वशासनानुरागेण परशासनाभिमानस्य विजृम्भितम्' । इति सर्वसमक्षं श्रीवीतरागस्य देवतत्त्वमवस्थाप्य सर्वेषां स्वरूपज्ञापनार्थं निजां प्रतिज्ञां प्रादुरकाषुः - 10 १७५. इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥३॥ इति प्रतिज्ञां श्रुत्वा सर्वेषु दर्शनेषु मौनमालम्ब्य स्थितेषु, सर्वेऽपि सभासदो विस्मयस्मेरमानसा मनसि श्रीवीतरागं देवं प्रपद्य 'नमः श्रीजिनाय, नमः श्रीनिरञ्जनाय' इत्यूचुः । ज्ञातं सर्वैरपि देवतत्त्वम् । यथा१७६. सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ १७७. ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत् ॥ १७८. ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । __20 निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥ १७९. नानाशस्त्रजुषः कथं गतरुषः स्त्रीसन्निधानाः कथं, नीरागा अशुभाशया अकरुणाः कारुण्यवन्तः कथम् । छत्राद्यष्टमहाविभूतिविरहा देवाधिदेवाः कथं; तस्मात् सर्वगुणद्धिमान् विजयते श्रीवीतरागप्रभुः ॥ 25 १८०. नै कोपोनलोभो न मानो नमाया, न लास्यं न हास्यं न गीतं न कान्ता । न वा यस्य पत्निन मित्रं न शत्र; तमेकं प्रपद्ये जिनं देवदेवम् ॥ 15 1. B ०प्रभावात् । 2. B परप्रवादा म० । ★★ १७९-१८०तमे द्वे पद्ये B आदर्श न स्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy