________________
कुमारपालप्रबोधप्रबन्धः ।
१३५ तूष्णीं स्थिते नृपे तन्मुखादिति गीरभूत्-'राजन् ! अयं महर्षिः सर्वदेवावतारः । अजिह्मपरब्रह्मावलोककरतलकलितमुक्ताफलवद् विज्ञातकालत्रयस्वरूपः, एतदुपदिष्ट एवाऽसन्दिग्धो मुक्तिमार्गः'- इत्यादिश्य तिरोभूते भूतपतौ उन्मनीभावं भजन् भूपतिं प्रति, रचितप्राणायामपवनः श्लथीकृतासनबन्धः श्रीहेमाचार्यो यावदिति वाचमुवाच तावदिष्टदैवतसङ्केतात् त्यक्तराज्याभिमानोऽतीव, ‘पादोऽवधार्यतां, अधुनोत्थीयतां' - इति व्याहृति- 5 परो विनयनम्रमौलिर्यत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेर्यावज्जीवं पिशितमद्यादिनियमं दत्त्वा, ततः प्रत्यावृत्तौ श्रीहेमसूरि-क्षमापती श्रीअणहिल्लपत्तनं प्रापतुः ।
15
६६४७. अथ प्रत्यहं राजसभायां विचारेषु जायमानेषु राजा श्रीजिनोक्तं धर्म सत्यतया मन्यमानोऽपि परं निजकुलक्रमायातं धर्मं द्विजादीनां लज्जया मोक्तुं न समीहते, परापवादभीतः ।
__10 १६९. यतः-कामराग-स्नेहरागावीषत्करनिवारणौ ।
___दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ १७०. कुलक्रमेण कुर्वन्ति मूढा धर्मं कुबुद्धयः ।
विपश्चितो विनिश्चित्य स्वचित्ते तु परीक्षया ॥ १७१. आगमेन च युक्त्या च योऽर्थः समभिगम्यते ।
15 परीक्ष्य हेमवद् ग्राह्यः पक्षपातग्रहेण किम् ॥ १७२. श्रोतव्ये च कृतौ कर्णौ वाग् बुद्धिश्च विचारणे ।
यः श्रुतं न विचारेत स कार्यं विन्दते कथम् ॥ इति श्रीगुरुवचनामाकर्ण्य राजा परापवादभीरुः सर्वदर्शनसंवादेन धर्मं जिघृक्षुः सर्वान् .. दर्शनविशेषान् पण्डितम्मन्यान् समाहूय सर्वसमक्षं सभायां धर्मस्वरूपं पप्रच्छ । तेऽपि च यथाज्ञातस्वस्वागमाचारविचारं निजं निजं धर्मस्वरूपं प्ररूपयामासुः ।।
६६४८. तत्र देवतत्त्वविचारणायां क्रियमाणायां सर्वदर्शनिभिर्नाट्याट्टहाससङ्गीतरागद्वेषप्रसादकोपजगज्जननस्थेमविनाशादरशस्त्रस्त्रीपरिग्रहादिसकलसांसारिकजन्तुजातसाधारणे दैवतस्वरूपे निरूप्यमाणे श्रीगुरवः प्राहुः- 'न चैवमर्वाचीनजनैः प्रोच्यमानं पारमेश्वरं स्वरूपम् । यदुक्तम्
25
1. B तिरोभूतो भूतपतिः तत उन्म० । 2. B यावत् किञ्चिद् वदति ता० । 3. B oभिमानः ‘इह
पादो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org