SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १३३ 5 कुमारपालप्रबोधप्रबन्धः । १५५. वसुदेवसुतो विष्णुर्माता वै देवकी स्मृता । श्रवणं तु जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ॥ १५६. पेढालस्य सुतो रुद्रो माता वै सत्यकी स्मृता । मूलं तु जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ॥ १५७. रक्तवर्णो भवेद् ब्रह्मा श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ॥ १५८. चतुर्मुखो भवेद् ब्रह्मा त्रिनेत्रस्तु महेश्वरः ।। चतुर्भुजो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ॥ १५९. ज्ञानं विष्णुः सदा प्रोक्तं चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तरर्हन्मूर्तिस्त्रयात्मिका ॥ १६०. क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । इत्येत एव चाष्टौ [ हि] वीतरागे गुणाः स्मृताः ॥ १६१. क्षितिरित्युच्यते क्षान्तिर्जलं शान्तिप्रसन्नता । निस्सङ्गता भवेद् वायुर्हताशो योग उच्यते ॥ १६२. यजमानो भवेदात्मा तपोज्ञानदयादिभिः । सोममूतिर्भवेच्चन्द्रो ज्ञानमादित्य उच्यते ॥ १६३. अकारे च भवेद् विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तस्यान्ते परमं पदम् ॥ १६४. पुण्यपापविनिर्मुक्तो मूर्तिरागविवर्जितः । अतोऽर्हद्भयो नमस्कार: कर्तव्यः शिवमिच्छता ॥ १६५. हंसवाहो भवेद् ब्रह्मा वृषवाहो महेश्वरः । गरुडवाहो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ॥ १६६. कमलहस्तो भवेद् ब्रह्मा शूलपाणिमहेश्वरः । शङ्खचक्रधरो विष्णुरेकमूर्तिः कथं भवेत् ॥ १६७. भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥* Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy