SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १३२ कुमारपालचरित्रसङ्ग्रहः रोमाञ्चकञ्चकितां तनुं बिभ्राणा द्विगुणीक्रियतामुपहार:'- इत्यादिश्य शिवपुराणोक्तदीक्षाविधिना आह्वान-अवगुण्ठन-मुद्राकरण-मन्त्रन्यास-विसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यर्च्य तदन्ते१४७. यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवान् एक एव भगवन्नमोऽस्तु ते ॥१॥ १४८. प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥ १४९. महत्वादीश्वरत्वाच्च यो महेश्वरतां गतः । रागद्वेषविनिर्मुक्तं तमहं वन्दे महेश्वरम् ॥ १५०. महाक्रोधो महामानो महामाया महामदः । महालोभो हतो येन महादेवः स उच्यते ॥ १५१. महावीर्यं महाधैर्य महाशीलं महागुणाः । महापूजाद्यर्हत्वाच्च महादेवः स उच्यते ॥ १५२. एकमूर्तिस्त्रयो भागा ब्रह्मा-विष्णु-महेश्वराः । ___15 ____तान्येव पुनरुक्तानि ज्ञान-चारित्र-दर्शनैः ॥ १५३. *कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः । कार्यकारणसम्पन्नो महादेवः स उच्यते ॥ १५४. प्रजापतिसुतो ब्रह्मा माता पद्मावती स्मृता । अभीचिजन्मनक्षत्रमेकमूर्तिः कथं भवेत् ॥ 10 1. B इत्यादिशन् । ततः शिव० । 2. A मन्त्राभ्यास । 3. B मभ्यर्चितवन्तः । 4. B ब्रह्म । ★ १५३तमात् श्लोकादारभ्य १६७तमश्लोकपर्यन्तं पञ्चदशश्लोकानां स्थाने b प्रतौ पुस्तके केवलमिदं श्लोकचतुष्ट्यं समस्ति हंसवाहो भवेद् ब्रह्मा वृषवाहो महेश्वरः । गरुडवाहो भवेद् विष्णुरेका मूर्तिः कथं भवेत् ॥ अब्जहस्तो भवेद् ब्रह्मा शूलपाणिमहेश्वरः । शङ्खचक्रधरो विष्णुरेका मूर्तिः कथं भवेत् ॥ एका मूर्तिस्त्र० । परस्परविरोधानामेका मूर्तिः कथं भवेत् ॥ भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा विष्णुर्वा शिवो जिनो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy