________________
कुमारपालप्रबोधप्रबन्धः ।
१३१ स्तमेकमेव संसदि प्रशंसन् निनिमित्तो वैरी परिजनस्तेजःपुञ्जमसहिष्णुः कश्चिन्मिथ्यादृष्टी राज्ञोऽग्रेऽजल्पत् । १४६. उज्जवलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते ।
दग्ध्वा तनुमपि शलभो दीप्रां दीपार्चिमपहरति ॥१॥ इति न्यायात् पृष्ठिमांसादनदोषमप्युररीकृत्य तदपवादमेवावादीत्- 'यदयममन्दच्छन्दानु- 5 वृत्तिपर: सेवाधर्मकुशलः केवलं प्रभोरभिमतमेव भाषते । यद्येवं न, तदा प्रातरुपेतः "श्रीसोमेश्वरयात्रायां भवता सहागच्छतु" इति गदितः स परतीर्थपरिहारान्न तत्र गमिष्यति, इति अस्मन्मतमेव प्रमाणम्'-नृपस्तद्वाक्यमादृत्य प्रातरुपागतं श्रीहेमचन्द्रसूरीश्वरं श्रीसोमेश्वरयात्रार्थमभ्यर्थयन् (त्) 'बुभुक्षितस्य किं निमन्त्रणम् ?', उत्कण्ठितस्य केकारश्रवणम्- इति लोकरूढिः; तपस्विनामधिकृततीर्थयात्राधिकाराणां को नाम नृपतेरत्र 10 निर्बन्धः ।' इत्थं गुरोरङ्गीकारे 'युष्मद्योग्यं सुखासनप्रभृतिवाहनादि किञ्चित् सज्जीक्रियतामिति ईरिते वयं पादचारेण सञ्चरन्तः पुण्यमुपलभामहे; परं वयमिदानीं त्वामापृच्छ्य मितैः प्रयाणैः श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीदेवपत्तने प्रवेशोत्सवे मिलिष्यामः' - इत्युदीर्य तत्तथैव कृतवन्तः । नृपतेः पुर: विप्राः प्रवदन्त्यदः'राजन् ! हेमसूरिनष्ट्वा गतः क्वापि, स न समेष्यति श्रीसोमपत्तने ।' नृपः समग्रसामग्र्या 15 कतिपयैः प्रयाणैः श्रीपत्तनं प्राप्य श्रीहेमसूरीननागतान् वीक्ष्य सर्वत्र-योजनपञ्चमध्ये विलोकापिताः । परं न श्रुता न दृष्टाः । यावत् किञ्चिन्नृपश्चिन्तयति तावत् प्रभुरग्रे धर्माशिषं बभाण । चमत्कृ तो राजा विस्मितश्च । प्रभुरूचे- 'अद्याधुना वयं श्रीरैवताचलोपरि देवान्नमस्कृत्य भवतां प्रवेशमहोत्सवं मत्वा समायाताः'। तदा तच्छ्रुत्वा सर्वेऽपि द्विजा म्लानिं प्राप्ताः ।
४५. अथ महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानकेष्वाक्रान्तेषु भूपीठलुठनानन्तरं चिरतरातुल्यायल्लकानुमानेन गाढमुपगृहे श्रीसोमेश्वरलिङ्गे, ‘एते जिनादपरं दैवतं न नमस्कुर्वन्ती'ति मिथ्यादृग्वचसा भ्रान्तचित्तस्य श्रीहेमचन्द्रं प्रति एवंविधा गीराविरासीत्- 'यदि युज्यते तदेतैरुपहारैर्मनोहारिभिः श्रीसोमेश्वरमर्चयन्तु भवन्तः ।' तत्तथेति प्रतिपद्य सद्यः क्षितिपकोशादागतेन कमनीयोद्गमेनालङ्कृततनवो 25 नृपतिनिर्देशात् पतीयाणाविप्रश्रीबृहस्पतिना दत्तहस्तावलम्बाः प्रासाददेहलीमधिरुह्य किञ्चिद् विचिन्त्य प्रकाशं- 'अस्मिन् प्रासादे कैलासवासी श्रीमन्महादेवः साक्षादस्तीति
1. B परजन० । 2. B द्विजादयो । 3. B भूपीठे । 4. B चिरन्तनातु० । 5. B श्रीसूरिः सोमेश्वरलिङ्गम, तदा एते । 6. B .चित्तस्य भूपस्य श्री० । 7. B ०दगमनेनालङ्कृततन 8. B प्रकाशितवन्तः । 9. B कैलाश० ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org