________________
१३०
कुमारपालचरित्रसङ्ग्रहः १४२. शृङ्गारमदनोत्पादं यस्मात् स्नानं प्रकीर्तितम् ।
तस्मात् स्नानं परित्यक्तं नैष्ठिकैर्ब्रह्मचारिभिः ॥ १४३. सुखशय्यासनं वस्त्रं ताम्बूलं स्नानमण्डनम् ।
दन्तकाष्ठं सुगन्धं च ब्रह्मचर्यस्य दूषणम् ॥ १४४. सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ इति शास्त्रोक्तं किं युष्माभिरपि न दृष्टं न वा श्रुतं, येनेयं चर्चा क्रियते ।'-इति निशम्य नृपः सपरिकरः प्रमुदितः । ज्ञातः शौचस्य समाचारः । प्राह च तदा- 'अहो !
श्रीहेमसूरीणां स्वपरशास्त्ररहस्यस्मृतिः, सदाचार चतुरता च । 10 १४५. यतः- एहिरेयाहिरां चक्रे केषां न श्रुतिषु श्रुतम् ।
परं परिमलस्तस्य विलीनो विमलात्मसु ॥ ज्ञातं च जलशौचं मूढजनमनोविस्मापनम् ।*
६६४४. अथान्यदा क्षमापतिः पप्रच्छ–'कयापि युक्त्याऽस्माकमपि यशःप्रसरः कल्पान्तःस्थायी भवति ?'- इति तदीयां गिरमाकर्ण्य 'विक्रमार्क इव विश्वस्यानृण15 करणात्, 'यद्वा श्रीसोमेश्वरस्य प्रासादं वारांराशितरङ्गनिकरासन्नाम्मोभिः शीर्णप्रायं
युगान्तकीर्तये समुद्धर'- इति चन्द्रातपनिभया श्रीहेमचन्द्रगिरा उद्वेलप्रमदाम्भोधिनृपस्तमेव महर्षि पितरं दैवतं गुरुं मन्यमानो नितरां द्विजान् निन्दन्, तदैव प्रासादोद्धाराय दैवज्ञनिवेदिते सुलग्ने तत्र पञ्चकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् । * अथ श्रीसोमेश्वरस्य प्रासादप्रारम्भे खरशिलानिवेशे सञ्जायमाने सति पञ्चकुलप्रहितवर्द्धापनिकावि20 ज्ञप्तिकां नृपतिः श्रीहेमचन्द्रगुरोर्दर्शयन् 'अयं प्रासादप्रारम्भः कथं निष्प्रत्यूहं प्रमाण
भूमिमधिरोढमेति ?' इति पृथिवीपरिवृढेनानुयुक्तः श्रीमान् किञ्चिदुचितं विचिन्त्य गुरुरूचिवान्-'यदस्य धर्मकार्यस्यान्तरायं परिहाय ध्वजाधिरोपं यावद् अब्रह्मसेवानियमोऽथ मद्यमांसनियमः, द्वयोरेकतरं किमप्यङ्गीकुरु'- इति तद्वचनमाकर्ण्य नृपतिर्मद्यमांसनियम
मभिलषन् श्रीनीलकण्ठस्योपरि जलं विमुच्य तमभिग्रहं जग्राह । संवत्सरद्वयेन तस्मिन् 25 प्रासादे कलशध्वजाधिरोपं यावद् गते सति तं नियमं मुमुक्षुर्गुरूननुज्ञापयन्, तैरूचे'यद्यनेन निजकीर्तनेन सार्द्धमर्द्धचन्द्रचूडं प्रेक्षितुमर्हति भवान् तद्यात्रापर्यन्ते नियममोचनावसरः ।' इत्यभिधायोत्थिते श्रीहेमचन्द्रमुनीन्द्रे गते तद्गुणेरुन्मीलन्नीलिरागरक्तहृदय
1. B प्रमोदा० । 2. B .मानो विजातीनितरद्विजान् ।
★ 'अथ श्रीसोमेश्वरस्य इत्यत आरभ्य १३३तमपत्रस्य २६तमपङ्क्तिपर्यन्तो ग्रन्थसन्दर्भ: Pb
प्रतौ न वर्तते । Jain Education International For Private & Personal Use Only
www.jainelibrary.org -