________________
5
कुमारपालप्रबोधप्रबन्धः ।
१२९ १३०. कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ १३१. हरिणीगर्भसम्भूतो ऋषिशृङ्गो महामुनिः । तप० ॥ १३२. शुनकीगर्भसम्भूतः शुको नाम मुनिस्तथा । तप० ॥ १३३. मण्डूकीगर्भसम्भूतो माण्डव्यश्च महामुनिः । तप० ॥ १३४. उर्वशीगर्भसम्भूतो वशिष्ठस्तु महामुनिः । तप. ॥ १३५. न तेषां ब्राह्मणी माता संस्कारश्च न विद्यते । तप० ॥ १३६. यद्वत्काष्ठमयो हस्ती यद्वच्चर्ममयो मृगः ।
ब्राह्मणस्तु क्रियाहीनस्त्रयस्ते नामधारकाः ॥ इति श्रुत्वा निरुत्तरेषु विप्रेषु प्रमुदितो राजा । जातं मनसि स्थैर्य श्रीजिनधर्मे । 10
88४३. अन्यदा कैश्चित् मत्सरिभिः प्रोक्तम्- 'राजन्नेते मलाविलवस्त्राः स्नानाभावादपवित्रगात्रा राजसभायां स्थातुं नोचिताः ।'-इति श्रुत्वा तत्र सकलराजवर्गसमक्षं श्रीसूरिभिरभिदधे-'कस्य नामापावित्र्यं, शरीरस्यात्मनो वा ? यदि शरीरस्य तर्हि सर्वेषां शरीरस्य तावत् सप्तधातुमयत्वात् पावित्र्यापावित्र्यविभागः कर्तुं केनापि नो पार्यते । आत्मनश्चेत्, तद् युष्मादृशामनतिशयदृशां प्राकृतपुरुषाणामतीव दुर्लक्ष्यम् । जलक्षालनकृतं 15 तु यत् पावित्र्यापावित्र्यविवेचनं तन्मूढविस्मापनम् । यदुक्तम् - १३७. शौचमाध्यात्मिकं त्यक्त्वा भावशुद्ध्यात्मकं शुभम् ।
जलादिशौचं यद् दृष्टं मूढविस्मापनं हि तत् ॥ १३८. कुर्याद् वर्षसहस्राणि प्रत्यहं भज्जनं मुहुः ।
सागरेणापि कृत्स्नेन वधको नैव शुद्धयति ॥ १३९. चित्तं रागादिभिः क्रान्तमलीकवचनैर्मुखम् ।
जीवहिंसादिभिः कायो गङ्गा तस्य पराङ्मुखी ॥ १४०. चित्तमन्तर्गतं शुद्धं वदनं सत्यभाषणैः ।
ब्रह्मचर्यादिभिः कायः शुद्धो गङ्गाविनाप्यसौ ॥ १४१. ब्रह्मचर्येण सत्येन तपसा संयमेन च ।
मातङ्गा अपि शुद्धयन्ति न शुद्धिस्तीर्थयात्रया ॥
20
25
1. B उर्वशीकुक्षिस०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org