SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १२८ कुमारपालचरित्रसङ्ग्रहः स्थिताः । चमत्कृतो राजा दयाधर्मे मनो दधौ । 88४२. अथान्यदा विप्रैः सम्भूय प्रोक्तम्-'शूद्रा एते, न प्रणामार्हाः' । श्रीगुरुभिरुक्तम्- 'किं नाम तत् शुद्रत्वं, ब्राह्मणत्वं वा किमुच्यते । न तावदेकान्तेन जात्या शूद्रत्वं, ब्राह्मणत्वं वा भवति । यदुक्तम्११९. शूद्रोऽपि शीलसम्पन्नो गुणवान् ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः शूद्रापत्यसमो भवेत् ॥ १२०. अत:- सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः । ब्राह्मणेष्वपि चाण्डालाः चाण्डालेष्वपि ब्राह्मणाः ॥३॥ १२१. कृषि-वाणिज्य-गोरक्षां राजसेवामकिञ्चनाः । ये च विप्राः प्रकुर्वन्ति न ते कौन्तेय ! ब्राह्मणाः ॥३॥ १२२. हिंसकोऽनृतवादी च चौर्ययाभिरतश्च यः । परदारोपसेवी च सर्वे ते पतिता द्विजाः ॥ १२३. ब्रह्मचर्यतपोयुक्ताः समानलोष्टकाञ्चनाः । सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु ॥ १२४. क्षान्त्यादिकगुणैर्युक्तो व्यस्तदण्डो निरामिषः । न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् ॥ १२५. सदा सर्वानृतं त्यक्त्वा मिथ्यावादाद् विरच्यते । नानृतं च वदेद् वाक्यं द्वितीयं ब्रह्मलक्षणम् ॥ १२६. सदा सर्वं परद्रव्यं बहिर्वा यदि वा गृहे । अदत्तं नैव गृह्णाति तृतीयं ब्रह्मलक्षणम् ॥ १२७. देवासुरमनुष्येषु तिर्यग्योनिगतेषु च । न सेवते मैथुनं यश्चतुर्थं ब्रह्मलक्षणम् ॥ १२८. त्यक्त्वा कुटुम्बवासं तु निर्ममो निष्परिग्रहः । युक्तश्चरति निस्सङ्गः पञ्चमं ब्रह्मलक्षणम् ॥ 25 १२९. पञ्चलक्षणसम्पूर्ण ईदृशो यो भवेद् द्विजः । महान्तं ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! ॥ __ 1. B प्रोक्तम् - देव ! शुद्रा । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy