SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । महाभारते शान्तिपर्वेऽप्युक्तम् । तथा जैनागमे च - १११. संनिही गहमित्ते य रायपिंडे किमिच्छिए । ११२. *संवाहणं दंतपहोयणाय संपुच्छणदेहपलोअणा य ॥ एतत्सर्वं साधूनामनाचीर्णम् । ११३. आचेलुक्क उद्देसिय सिज्जायर रायपिंड इम् । वयजिपक्किमणे मासं पज्जोसवणकप्पे ॥ १ ॥ इति दशधा साधूनां सामाचारीकल्पः । इत्याकर्ण्य राजा प्रमुदितो जैनाचारप्रशंसामकार्षीत्। लज्जिताश्च द्विजाः सर्वेऽधोमुखा अभूवन् । ११४. अहिंसा प्रथमो धर्मः सर्वशास्त्रेषु विश्रुतः । यत्र जीवदया नास्ति तत्सर्वं परिवर्जयेत् ॥ ४१. अथ कतिभिर्दिनै राजा श्रीपत्तनमाजगाम । अन्यदा सभायां निषण्णे राजनि सपरिकरे कोऽपि मत्सरी प्राह- 'राजन्नेते जैना वेदान् न मन्यन्ते, अतो वेदबाह्या 10 न नमस्कारार्हाः' । किमेतदिति पृष्टा राज्ञा श्रीसूरयः प्राहुः - 'राजन् ! यदि वेदेषु जीवदयाधर्मोऽस्ति तर्हि सकलशास्त्रसंवादशुद्धं जीवदयाधर्मं कुर्वाणा वयं कथं वेदबाह्याः । यदाहुः ११५. ध्रुवं प्राणिवधो यज्ञे नास्ति यज्ञस्त्वहिंसकः । सर्वसत्त्वेष्वहिंसैव दयायज्ञो युधिष्ठिर ! ॥ ११६. यदि प्राणिवधे धर्मः स्वर्गश्च खलु इष्यते । संसारमोचकानां च ततः स्वर्गोऽभिधीयते ॥ जैनागमश्च ११७. सव्वभूअप्पभूयस्स संमं भूयाइं पासओ । पिहियासवस्स दंतस्स पावं कम्मं न बंधई ॥ ११८. सव्वे जीवा वि इच्छंति जीविडं न मरिज्जिउं । तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥ १२७ ★ ★ एतत्चिह्नान्तर्गतः समग्रोऽपि ग्रन्थसन्दर्भ: Pa पतौ नोपलभ्यते । 1. B आचेलकुद्दे० । 2. B द्विजाः तूष्णीं स्थिताः । Jain Education International 5 For Private & Personal Use Only अथ वेदेषु नास्ति जीवदया तर्हि न प्रमाणम्, चार्वाकधर्मशास्त्रवत्, दया- 25 विकलत्वात् । ‘किमस्माकं दयाधर्मनिष्ठानां तैः प्रयोजनमिति श्रुत्वा ते सर्वे तूष्णीं कृत्वा 15 20 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy