SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 10 १२६ कुमारपालचरित्रसङ्ग्रहः प्रत्यहमारक्षिकाः स्थाप्यन्ते, कटकाभावेऽपि गजतुरङ्गमादिचमूः श्रमाभ्यासं काराप्यते, मा मुष्णन्तु नगरमिति । तथात्रापि ज्ञेयम् । राजव्यवहारवद् धर्मव्यवहारः । तथा चागमः१०४. पाणेहिं संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥१॥ संसज्जइ धुवमेयं..........॥२॥ संसत्तमसंसत्ता................॥३॥ १०५. *तित्थयरा रायाणो साहू आरक्खि भंडगं च पुरं । तेणसरिसा य पाणा तिगं च रयणा भवो दंडो ॥४॥ तथा धर्मसमुद्देशेऽप्युक्तम् - १०६. आत्मवत् सर्वजीवेषु कुशलवृत्तिचिन्तनम् । धर्माधिगमनोपायः शक्तितस्त्यागतपसी च ॥१॥ एतदाकर्ण्य राजा चमत्कृतोऽवादीत्- 'अहो ! श्रीजैनागमगम्भीरता जीवरक्षादक्षता च'। ततः समधिकः श्रीजिनमतानुरागः समजनि नृपस्य । ४०. अथ राज्ञा श्रीगुरूणां हैमटङ्ककसहस्रदशकं पुरो मुक्त्वा योगक्षेमकरणाय गृह्यतामित्युक्ते श्रीसूरिभिरूचे-'सर्व दीयमानं द्विजा गृह्णन्ति, न तु वयम्'। ततो राज्ञोचे15 भगवन्नेते परदर्शनिनः सर्वेऽपि मया दीयमानं सर्वस्वमपि गृह्णन्ति । परं ब्रह्मचारिभिनिर्ग्रन्थैर्भवद्भिः कस्मात् कमपि नादीयतेति ?' सूरयः प्राहुः- 'राजन् ! सर्वशास्त्रविरोधहेतुत्वात् प्रतिषिद्धं राजपिण्डम् । यदाह स्मृतौ१०७. *अधीत्य चतुरो वेदान् साङ्गोपाङ्गान् सलक्षणान् । शूद्रात् प्रतिग्रहं कृत्वा खरो भवति ब्राह्मणः ॥१॥ 20 __ १०८. *खरो द्वादशजन्मानि षष्टिजन्मानि शूकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ १०९. राज्ञः प्रतिग्रहो घोरो मधुस्वादो विषोपमः । पुत्रमांसं वरं भुक्तं न तु राजप्रतिग्रहः ॥ ११०. राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर !। शटितानामिव बीजानां पुनर्जन्मो( न्म ) न विद्यते ॥४॥ 25 ★ गाथेयं Pa प्रतौ नास्ति । 1. B नादीयते इति । * १०७-१०८ तमौ श्लोकौ Pa आदर्श न विद्यते । 2. B सटिता० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy