________________
१२५
10
कुमारपालप्रबोधप्रबन्धः । ९९. विश्वामित्र-पराशरप्रभृतयो ये चाम्बुपत्राशिनः,
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा
स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥१॥ इति वचः श्रुत्वा श्रीसूरिभिरूचे- 'न चैवमाहारमाहारयन्ति मुनयः । न चैकान्तेनाजिते- 5 न्द्रियत्वकारणमाहारः, किन्तु मोहनीयकर्मणः प्रकृतिरपि, तीव्रमन्दमन्दतरभेदा । तथा च१००. सिंहो बली द्विरदशूकरमांसभोजी,
संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि;
कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥२॥ इति तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते नृपः प्रमुदितः ।
६६३८. पुनः कियद्दिने गते नृपप्रत्यक्षं केनापि मत्सरिणाऽभाणि-'राजन्नेते जैना: सूर्यं न मन्यन्ते, प्रत्यक्षदैवतम् । तत्र श्रीसूरिः प्राह१०१. अधाम धामधामेदं वयमेव हृदि स्फुटम् ।
यस्यास्तव्यसने प्राप्ते त्यजामो भोजनोदके ॥१॥ इति प्रामाण्याद् वयमेव भक्ताः सूर्यस्य न चैते तत्त्वतः । १०२. पयोदपटलैश्छन्ने नैव कर्वन्ति भोजनम् ।
अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥२॥ व्यासेनापि प्रोक्तम् - १०३. ये रात्रौ सर्वदाहारं वर्जयन्ति सुमेधसः ।
20 तेषां पक्षोपवासस्य फलं मासेन जायते ॥३॥ ६६३९. इति तन्मुखबन्धे जाते कदाचिद्देवपूजाक्षणे सौघमागते मोहान्धकारतिरस्कारचन्द्रे श्रीहेमचन्द्रे यशश्चन्द्रगणिना रजोहरणेनासनपढें प्रमाय॑ तत्र कम्बले निहिते ज्ञाततत्त्वजुषां किमेतदिति नृपेण पृष्टाः श्रीगुरवः प्राहुः- 'राजन् ! कदाचिदिह कोऽपि जन्तुर्भवति, तदा तत्पीडापरिहरणायासौ प्रयत्नः, सर्वजन्तुरक्षारूपत्वाद् धर्मरहस्यस्य' ।25 'यदा प्रत्यक्षतया दृश्यते जन्तुस्तदैवेदं युज्यते नान्यथा वृथाप्रयासहेतुत्वादिति' युक्तियुक्तां नृपोक्तिमाकर्ण्य श्रीगुरुभिरुक्तम्- 'राजन् ! यथा भवद्भिश्चौराद्यभावेऽपि नगररक्षार्थं
1. B गते तु भुञ्जाना ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org