________________
5
१२४
अष्टादशदेशेषु राज्ञ आज्ञा प्रवर्त्तिता श्रीआम्बडेन ।
§§३६. अथान्यदा श्रीहेमसूरिमाता चाहिणिदेवी प्रव्रजिता । कालान्तरे कृतानशना नमस्कारकोटिपुण्ये दत्ते सति श्रीपत्तने पुण्यवरे त्रिषष्टिशलाकापुरुषचरित्रादिलक्षग्रन्थो नवीनः कार्यः इति प्रोक्ते सति सूरिणा सा मृता । कर्णमेरुप्रासादाग्रे विप्रैस्तथा भरडकैरसूयया तद्विमानभग्नेऽत्यन्तदूनाः श्रीसूरयस्तदुत्तरक्रियां निर्माय तेनैव मन्युना मालवकदेशे संस्थितस्य श्रीकुमारपालस्य स्कन्धावारमलञ्चक्रुः ।
कुमारपालचरित्रसङ्ग्रहः
९५. प्रभुः स्वयं यदि भवेत् स्वकरे वा यदि प्रभुः । स शक्नोति तदा कार्यं कर्तुं नैवान्यथा पुमान् ॥१॥
इति वचस्तत्त्वं विचिन्तयन्तः श्रीमदुदयनमन्त्रिणा नृपतेर्निवेदितागमनाः कृतज्ञशिरोरत्नेन 10 नृपेण परोपरोधान्महोत्सवपुरस्सरं सौधमानीताः । तद् राज्यप्राप्तिनिमित्तज्ञानं स्मारयन् नृपः, तत्रभवद्भिः सदैव देवपूजावसरेषु समागम्यमिति प्राह । सूरिरुवाच
९६. भुञ्जीमहि वयं भैक्षं जीर्णं वासो वसीमहि ।
शीमहि महीपृष्ठे कुर्व्वीमहि किमीश्वरैः ॥ १ ॥
राजाह - 'महर्षे
अहं परलोकसमाचरणाय समतृणमणिभिर्भवद्भिः सह सङ्गति15 साङ्गत्यमभिलषामि । यतः -
९७. एकं मित्रं भूपतिर्वा यतिर्वा......... .॥१॥
९८. विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । आकर्णदीर्घोज्जवललोचनोऽपि दीपं विना पश्यति नान्धकारे ॥२॥ महाकविप्रणीतत्वात् । किं मित्रं यन्निवर्त्तयति न पापात्' । श्रीसर्वज्ञशासने महाप्रभावनां 20 ज्ञात्वा श्रीगुरुभिरप्रतिषिद्धं तद्वचनम् । ततो नृपस्तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन सर्वावसरं वेत्रिणमादिदेश ।
Jain Education International
३७. अथ तत्र यातायाते सञ्जायमाने सूरीणां गुणग्रामस्तवं कुर्वत्युर्वीपतौ पुरोधा विरोधादित्यभ्यधात्- 'अमी न नमस्कारार्हाः, अजितेन्द्रियत्वात्'। कथमिति राज्ञा पृष्ठे प्राह
1. समग्रा पङ्क्ति: Pa आदर्शे नास्ति । 2. B सूरिभिर्माता । 3. B ०देवी नाम्नी प्रव्राजिता । 4. B तद्विमाने भग्ने । 5. B श्रीहेमसूरय० । 6. B विचिन्तयन्तु । इत्युदयनस्य निवेदितम् । ततः श्रीमदु० । 7. B वरं । 8. B वेत्रिणामा० । 9. Pa विरोधादामिगः प्राह ।
For Private & Personal Use Only
www.jainelibrary.org