________________
कुमारपालप्रबोधप्रबन्धः।
१२३ इत्याद्यपरमपि तत्सत्कं सर्वं समर्प्य तच्छिर:कमलेन स्वस्वामिनः श्रीकुमारपालस्य पादौ पूजयामास ।
महावदातप्रीतेन राज्ञा श्रीआम्बडस्य 'राजपितामह' इति बिरुदं दत्तम् । चतुर्विशतिशतं जात्यतुरङ्गमाश्च प्राप्य तेन स्वगृहादर्वाक् सर्वे याचकेभ्यः प्रदत्ताः । अत्रान्तरे पिशुनप्रवेशः ।
5 ९१. यतः- जम्मे वि जं न हूअं नह होही जं च जम्मलक्खेहिं ।
___ तं चिय जंपति तहा पिसुणा जह सच्चसारिच्छं ॥१॥ ___ ततः प्रभाते किञ्चिद्रूनेन राज्ञा सेवावसरे समायातः प्रणामपर्यन्ते श्रीआम्बडः प्रोक्तः- 'त्वं मम दानादप्यधिकमियत् कस्माद्दत्से ? । यतः, सेवकेन स्वामिन आधिक्येन दानं न देयमिति सेवाधर्मः ।' अत्रावसरे श्रीआम्बडस्य मागधः पपाठ 10 राजसभायाम्९२. शय्या शैलशिला गृहं गिरिगृहा वस्त्रं तरूणां त्वचः,
सारङ्गाः सुहृदो ननु क्षितिभृतां वृत्तिः फलैः कोमलैः । येषां नैर्झरमम्बुपानमुचितं रत्येव विद्याङ्गना;
मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥१॥ मन्त्रिणा लक्षमौचित्ये दत्तम् । राज्ञः समधिक: कोपः । ततो मन्त्रिणा प्रोचे'राजन् ! त्वं द्वादशग्रामस्वामिनस्त्रिभुवनपालपुत्रः, अहं त्वष्टादशदेशाधिपत्यभुजस्तव पुत्रः। ततः स्तोकमिदं मम दानमिति' श्रुत्वा राजा प्रमुदितः पुत्रपदमरात् । द्विगुणं च प्रसादमकरोत् । अत्रान्तरे राज्ञो मागधः पपाठ९३. ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते,
20 तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो;
ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥१॥ राजा सपादलक्षदानमदात् । ततः-- ९४. यः कौबेरीमा तुरुष्कामैन्द्रीमा त्रिदिवापगाम् ।
याम्यामा विन्ध्यमा सिन्धुं पश्चिमां यो ह्यसाधयत् ॥१॥
15
1. B प्रीणितेन । 2. B ०माश्च तेन । 3. B भट्टेभ्यः । 4. B सव्व० । 5. B क्षितिरुहां । 6. B रत्यैव । 7. B पालस्य पुत्रः, अहं त्वष्टादश० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org