________________
१२१
कुमारपालप्रबोधप्रबन्धः। माजगाम । द्वासप्ततिसामन्तभूपालैः कृतराज्याभिषेकः साम्राज्यं करोति ।
६६३५. अथान्यदा श्रीचौलुक्यचक्रवर्ती सर्वावसरे स्थितः कौङ्कणदेशीयस्य मल्लिकार्जुनस्य राज्ञो मागधेन राजपितामह इति बिरुदमभिधीयमानमशृणोत् । ८५. यथा-जित्वा प्राग् निखिलानिलापतिवरान् दुर्वारदोर्वीर्यतः,
कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत् सर्वदा । धत्ते राजपितामहेति बिरुदं यो विश्वविश्वश्रुतं;
सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः ॥१॥ एतदाकर्ण्य सोष्माणं राजानमधिगम्यागाधबुद्धिनिधिर्मागधः पुनरभ्यघात्८६. रवेरेवोदयः श्लाध्यः कोऽन्येषामुदयाग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ ८७. यत:- अहङ्कारे सति प्रौढे वदत्येवं गुणावली ।
अहं कारे पतिष्यामि समायाता तवान्तिकम् ॥२॥ इति मागधवचनैरुद्दीपितो राजाऽवदत्- 'अहो अविज्ञाताहङ्कारस्वरूपोऽयं भूपैः ।' ततस्तदसहिष्णुतया स्वसभां निभालयन्, नृपचित्तविदा मन्त्रिश्रीआम्बडेन कृतं ललाटे करसम्पुटम् । दृष्ट्वा चमत्कृतो भूपतिः । सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणमपृच्छत् । 15 ततो मन्त्रिपुत्रोऽवदत्-'देव ! यदस्यां सभायां स कोऽपि सुभटोऽस्ति यो मिथ्याभिमानं नृपाभासं चतुरङ्गनृपवत् मल्लिकार्जुनं जयतीति युष्मदाशयविदा मया स्वाम्यादेशक्षमेणायमञ्जलिबन्धश्चक्रे । इति तद्वचः श्रुत्वा राजाऽवदत्-'अहो अस्य चातुर्यम्' । ८८. उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥१॥ 20 ततस्तद्वचःसममनन्तरमेव नृपस्तं प्रति प्रयाणाय दलनायकं कृत्य(कृत्वा) पञ्चाङ्गप्रसाद दत्त्वा समस्तसामन्तैः समं विससर्ज । स चाविच्छिन्नप्रयाणैः कौङ्कणदेशमासाद्य दुर्वारवारिपूरां कालम्बिणिनाम्नी नदीमुत्तीर्य परस्मिन् कूले गते सैन्ये तं सङ्ग्रामासज्जं विमृश्य मल्लिकार्जुन: सर्वाभिसारेण प्रहरन् तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णच्छत्रालङ्कृतमौलिः कृष्णगुड्डरे निवसन् श्रीपत्तनबहिःप्रदेशे स्थितः ।
1. Pa तवान्तिके । 2. B चतुरङ्गनृपकं । * सप्ताशीतितमः श्लोकः त्रयोदशीतमपङ्क्तिगतः ‘भूपः' । इत्यस्य पश्चात् Pa प्रतौ वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org