________________
११८
कुमारपालचरित्रसङ्ग्रहः निधेहि। राज्ञा तत्प्रतिपद्योक्तम्-'युष्माभिरिहानिशमागन्तव्यमिति'। एवमाचार्यैः सह राज्ञः सङ्गतिः समजनि ।
★६६३४. अथ श्रीकुमारपालः समस्तसामन्तचक्रवालचतुरङ्गचमूचङ्क्रमणचलाचलभूवलयः, दिग्विजययात्रायै चचाल । तत्र प्रथमं दक्षिणाशां प्रति प्रस्थितो लाट5 महाराष्ट्र-कर्णाट-तिलङ्गादिदेशानाविन्ध्याचलमसाधयत् । ततो दक्षिणसमुद्रतटनिकटेऽटन् कल्लोलान् दृष्ट्वा कम्पकारणमपृच्छत् । तत्र कवयः प्रोचुः७३. प्राप्तः श्रीरेष कस्मात् पुनरपि मथितं मन्थखेदं विधिच्छ:( त्सुः)
निद्रामप्यस्य सम्प्रत्यनलसमनसो नैव सम्भावयामि ।।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुपात10
स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥१॥ सपादलक्षटङ्कानौचित्येऽदात् । ततः सेतुबन्धं विलोक्य श्रीरामदेवप्रशस्तिमवाचयत् । यथा७४. शय्या शाड्वलमासनं शुचि शिलासा द्रुमाणामधः,
शीतं निर्झरवारि पानमशनं कन्दा: सहाया मृगाः । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने,
दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥१॥ अहो रामस्य वदान्यता वनेऽपि । ततः परशुरामस्याश्रमं विलोक्योवाच- 'अहो ! क्रोधस्य विस्फूर्जितम् । यः पूर्वं स्वां जननीमघातयत्'। तत:
७५. येन त्रिःसप्तकृत्वो नृपबलवसासान्द्रमास्तिक्यपङ्क, 20
प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ, राजन्योच्चांसकूटक्रथनपटुरटद् घोरधारः कुठार: ॥१॥
15
.
★ चतुस्त्रिंशत्तमीसमस्तकण्डिकास्थाने Pb प्रतावीदृशो लघुतमः पाठ उपलभ्यते
ततो राजा दिग्विजयं चकार । विन्ध्याचलं यावद् दक्षिणदिशं पश्चिमां सुराष्ट्रा-ब्राह्मणवाहकपञ्चनददेशान्, उत्तरस्यां कास्मीरादिदेशानसाधयत्, प्राच्यां कुरु-सूरसेन-कुशावर्त-पाञ्चाल-विदेहे-दशार्णमगधादीनसाधयत् । 1. B oराष्ट्र-तिलगा० । 2. B प्राप्त श्री० । 3. B विदध्यान्निद्रा ! 4. B नुयात । 5. B पङ्क- । 6. B च्चांशकूट० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org