________________
११७
Сл
कुमारपालप्रबोधप्रबन्धः । ७०. पूर्वपरीक्षितः सर्वोपधासु निजदेशजः ।
राजार्थ-स्वार्थ-लोकार्थकारको निस्पृहः शमी ॥३॥ ७१. अमोघवचनः कल्पः पालिताशेषदर्शनः ।
पात्रौचित्ये च सर्वत्र नियोजितपदक्रमः ॥४॥ ७२. आन्वीक्षिकी-त्रयी-वार्ता-दण्डनीतिकृतश्रमः ।।
क्रमागतो वणिक्पुत्रो भवेन्मन्त्री न चापरः ॥५॥ इति नीतिं विमृश्य तेन राज्ञा पूर्वोपकारकर्तुः श्रीमदुदयनाङ्गजः श्रीवाग्भट्टदेवो महामात्यश्चके । आलिगनामा ज्यायान् प्रधानः, महं उदयनदेवश्च ।
६६३२. तदा चौलुक्यराज्ञा कृतज्ञचक्रवर्तिना आलिगकुलालाय सप्तशतीग्राममिता विचित्रा चित्रकूटपट्टिका ददे । ते तु निजान्वयेन लज्जमाना अद्यापि 'सागरा' 10 इत्युत्यन्ते । यैश्च छिन्नकण्टकान्तरे प्रक्षिप्याक्षतो रक्षितस्तेऽङ्गरक्षकपदे प्रतिष्ठिताः । विस्मृताः श्रीहेमसूरयः ।
88३३. अन्यदा उदयनमन्त्रिणाऽऽहूताः श्रीपत्तने समायाताः समहोत्सवम् । कदाचिद् गुरुभिरुचे-'हे मन्त्रिन् ! त्वं भूपं रहो ब्रूयाः- अद्य त्वया नवीनराज्ञीगृहे न सुप्तव्यं रात्रौ, सोपसर्गत्वात् । केनोक्तमिति पृच्छेच्चेत्, तदाऽत्याग्रहे मम नाम ब्रूयाः'। 15 ततस्तेन मन्त्रिणा तथोक्ते, राज्ञा च तथाकृते, निशि विद्युत्पातात् तस्मिन् गृहे दग्धे, तस्यां च राश्यां मृतायां राजा चमत्कृतः । जगाद सादरम्-'मन्त्रिन् ! कस्येदमनागतज्ञानं, महत्परोपकारित्वं च ?।' ततो राज्ञानिर्बन्धे कृते मन्त्रिणा श्रीगुरूणामागमनमूचे । तत् श्रुत्वा प्रमुदितो नृपस्तानाकारयामास । राजसभायामुपागतानभ्युत्थाय ववन्दे, प्राञ्जलिरुवाच च-'भगवन्नहं निजास्यमपि दर्शयितुं नालं तत्रभवताम् । तदा स्तम्भतीर्थे रक्षितः, 20 भाविराज्यसमयचिट्ठडिका चार्पिता । परमहं प्राप्तराज्योऽपि नास्मार्षम् । युष्माकं निष्कारणप्रथमोपकारिणामहं कथञ्चनापि नानृणीभवामि' । सूरिभिरूचे
इत्थं विकत्थसे कस्मात् त्वमात्मानं मुधा नृप ! ।
उपकारक्षणो यत्ते सम्प्रत्यस्ति समागतः ॥२२२।। कृतज्ञत्वेन चेत् प्रत्युपचिकि(की)स्त्वं, तर्हि विश्वजनीने श्रीजैने धर्मे निजं 25
1. B दुदयनस्याङ्गजः । 2. Pa ०देवनामा महा० । 3. Pa 'गरा' । 4. Pa श्रीहेमसूरयोऽप्याजग्मुः । उदयनेनोत्सवः कृतः । 5. B गुरुभिर्मन्त्री ऊचे। 6. B तत्रभवद्भिस्तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org