________________
5
११६
20
*§§३०. पट्टाभिषेकादनन्तरं सोलाकनामा गन्धर्वोऽवसरे गीतकलयाऽतुलया रञ्जिताद् राज्ञः षोडशाधिकं शतं प्रसादे द्वैमाणामवाप्य, तैः सुखभक्षिकां विसाध्य, बालकान् तया सन्तर्पयन् 'राज्ञो दानमल्पमित्युपहसन्, कुपितेन राज्ञा निर्वासितो विदेशं गतः । तत्रत्य भूपतेः परितोषिताद् गजयुगलमानीयोपायनीकुर्वन् चौलुक्यभूपालेन सम्मानितः । कदाचित् कोऽपि वैदेशिकगन्धर्वो 'मुषितोऽस्मी'ति तारं बुम्बारवं कुर्वाणः, 10 'केन मुषितोऽसीति राज्ञाभिहितो 'मम गीतकलयाऽतुलया सामीप्यमुपेयुषा कौतुकार्पितगलशृङ्खलेन नश्यता मृगेणे'ति विज्ञापयामास । तदनु सोलाभिधानो गन्धर्वराट् नृपतिना समादिष्टः, अटवीमटन्तं स्फीतगीतादिकृष्टिविद्यया गले खेलत्कनक शृङ्खलमृगं नगरान्तः समानीय तस्य भूपतेः सभासमक्षं दर्शयामास । अथ तत्कलाकौशलेन चमत्कृतमानसः नृपतिः सोलाकं गीतकलाया अवधिं पप्रच्छ । स तु शुष्कदारुणः 15 पल्लवप्ररोहमवधिं विज्ञप्तवान् । तर्हि तत्कौतुकं दर्शयेत्यादिष्टः, अर्बुदाद् गिरेर्विरहनामानं वृक्षमाक्षेपादानाय्य तत्शुष्कशाखाखण्डं राजाङ्गणे कुमारमृत्तिकाक्लृप्तालवाले चिक्षेप । मल्हारवर्णाप्ताऽनवद्यगीतकलया सद्य: प्रोल्लसत्पल्लवितं निवेदयन् स सपरिवारं नृपं तोषयामास । तदा सन्तुष्टेन राज्ञा पारितोषिके ग्रामयमलं दत्तम् । - बइकारसोलाप्रबन्धः । §§३१.कृतोपकारानाकार्य सर्वान् सत्त्वहितस्ततः ।
कृतज्ञः कृतवान् राजा तेषां पूजां यथोचिताम् ॥२२१॥ स्वामिभक्तो जनोत्साही कृतज्ञो धार्मिकः शुचिः । अकर्कशः कुलीनश्च शास्त्रज्ञः सत्यभाषकः ॥१॥ ६९. विनीतः स्थूललक्षश्चाव्यसनी वृद्धसेवकः । अक्षुद्रः सत्त्वसम्पन्नः प्राज्ञः शूरोऽचिरक्रियः ॥२॥
६७. आदौ मयैवायमदीपि नूनं, न तद्दहेन्मामवहीलितोऽपि ।
इति भ्रमादङ्गुलिपर्वणापि, स्पृश्येत नो दीप इवावनीपः ॥३॥ इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्तचित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे |
६८.
कुमारपालचरित्रसङ्ग्रहः
1. Bस सोलाक० । 2. B द्रम्माणा० । ★ त्रिंशत्तमी कण्डिका समग्रा Pb प्रतौ न वर्तते, अग्रे पञ्चत्रिंशत्तमीकण्डिकायाः पूर्वं चोपलभ्यते । 3. B समादिष्टः - तं मृगमानय । अटवी० । 4. B ० गीताऽऽकृष्टि० । 5. B गलं । 6. B शृङ्खलं मृगं । 7. B दारूणां । 8. B पल्लवितं तं न्यवेदयत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org