SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ११५ कुमारपालप्रबोधप्रबन्धः । प्रदत्तच्छटकुङ्कुभिर्मदैर्मृगमदैरिव । ददद्दानं तदाऽर्थिभ्यो राजा प्रासादमासदत् ॥२२०॥ 88२८. ततः श्रीमत्कान्हडदेवमुख्यैः समस्तैरपि [सामन्तैः ] पञ्चाङ्गचुम्बितभूतलं नमोऽकारि । स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्ति स्वयं कुर्वन्, राज्यवृद्धानां प्रधानानामरोचमानस्तैः सम्भूय व्यापादयितुं व्यवस्थितः । सान्धकारगोपुरेषु 5 न्यस्तेषु घातकेषु प्राक्तनशुभकर्मणा प्रेरितेन केनाप्याप्तेन ज्ञापितस्तद्वृत्तान्तस्तं प्रदेशं विहाय द्वारान्तरेण वप्रं प्रविष्टः । तदनु तान् प्रधानान् यमपुरीं प्रति प्राहिणोत् । 8६२९. स भावुकमण्डलेश्वरः शालकसम्बन्धात् राजस्थापनाचार्यत्वाच्च राजपाटिकायां सर्वावसरेषु च प्राक्तनदुःखावस्थां समर्मतया जल्पति स्म । राज्ञोक्तम् - 'त्वयाऽतः परमेवंविधं सभासमक्षं न वाच्यं, विजने तु यदृच्छया वाच्यम् । 10 ६३. यतः- आज्ञाभङ्गो नरेन्द्राणां महतां मानखण्डना । - मर्मवाक्यं च लोकानामशस्त्रो वध उच्यते ॥१॥ ६४. याचको वञ्चको व्याधिः पञ्चत्वं मर्मभाषकः । ___ योगिनामप्यमी पञ्च प्रायेणोद्वेगहेतवः ॥ २ ॥ इति राज्ञोपरुद्ध उत्कटतया अवज्ञावशाच्च-रे ! अनात्मज्ञ ! इदानीमेव पादौ त्यजसि?' 15 इति भाषमाणो मर्तुकाम औषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदा तदाकारसंवरणेनापह्नवं विधायापरस्मिन् दिवसे नृपसङ्केतितैर्मल्लैस्तदङ्गभङ्गं कृत्वा नयनयुगलमुद्धृत्य, ततस्तं तदावासे प्रस्थापयामास । ग्रन्थान्तरेऽप्युक्तम्६५. काके शौचं द्यूतकारेषु सत्यं, सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता; राजा मित्रं केन दृष्टं श्रुतं वा ॥१॥ ६६. यतः- शास्त्रं सुनिश्चितधिया परिचिन्तनीय माराधितोऽपि नृपतिः परिशङ्कनीयः । आत्मीकृताऽपि युवतिः परिरक्षणीया; शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ॥२॥ 25 1. B ०कङ्कभि० । 2. B व्यवसितः । 3. B रे रे ! अनात्मज्ञ ! । 4. B द्युतकारे च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy