SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ११४ Jain Education International अग्रे प्रधानैश्चोलुक्यौ तौ द्वौ राज्यार्थमाहूतौ । महीपाल - रत्नपालौ राज्यं त्वस्यैव मे मतिः ॥ २०८॥ द्वितीयेऽह्नि प्रधानानां ज्ञापयित्वेति तौ ततः । आजूहवत् कुमारं च श्रीजयसिंहमेरुके ॥ २०९ ॥ ततः प्रधानैः सम्भूय पूर्वं राज्यार्थमाहूतः । महीपालस्तु तान्नत्वा दत्तादेशं करोमि किम् ॥२१०|| तं विसृज्य रत्नपालस्तैराहूतो महेश्वरम् । प्रणम्य सचिवादींश्च प्राञ्जलिः प्राह पूर्ववत् ॥२११॥ विसृष्टः सोऽप्यथाहूतः कुमारपाल ईश्वरम् । नत्वा सहेलमावर्ज्योत्तरीयाञ्चलसञ्चयम् ॥२१२॥ कुमारपालः [ तै: ] पृष्टः - 'कथं राज्यं करिष्यसि ?' | कृपाणं दर्शितं तेन केनापि पठितं ह्यदः ॥ २१३॥ न श्रीः कुलक्रमायाता शासने लिखिता न तु । खड्गेनाक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा ॥१॥ तानाह्वास्ताभिषेकाय मृगेन्द्रासनमास्थितः । ततः कृष्णादिभिः प्रोचे परामर्शं विमुच्य भोः ! ॥ २१४॥ अत्रार्थे मा विलम्बध्वं कार्य चेज्जीवितेन वः । तद्भीतैस्तैस्तथा चक्रे कुमारगुणरञ्जितैः ॥२१५॥ मुक्तानां सेतिका क्षिप्ता तत्शीर्षेऽभूत् सपल्लिका । कृष्णदेवभट्टमुख्यैस्ततो राजेत्यसौ नतः ॥२१६॥ श्रीकुमारपालदेवो वेष्टितो मण्डलेश्वरैः । पट्टहस्तिसमारूढो मेघाडम्बरमण्डितः || २१७॥ चामरैर्वीज्यमानस्तु गृह्णन् पौरजनाशिषः । विविधातोद्यनिर्घोषैर्बधिरीकृतदिङ्मुखः ॥२१८॥ हास्तिकाश्वीयपादातिरथकोट्याभिकोटिभिः । पुरतः पार्श्वतः पश्चाल्लौकैश्च परिवारितः ॥ २१९ ॥ 1. B माहृतः । 2. B माचाम्योत्तरीया० । Pb मावार्योत्तरीया० । 3. B कोट्यादिको० । ६२. कुमारपालचरित्रसङ्ग्रहः For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy