SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः। पुराऽप्यस्य पुरस्य स्वामी, ततोऽयमेव राजा भवतु,- इति नागकुमारदेवकृतराज्याभिषेकस्तत्प्रभावाद्राज्यं करोति । देवः सौस्थ्यं विधाय स्वस्थानमगात् । सोऽयं नागराजसाम्राज्यम् । एतन्निशम्य कुमारेण चिन्तितम्-'अहो ! दुर्गतिदाता क्रोधः । ततः पुरमध्ये बभ्राम कुमारोऽगाच्चर्मकारबालचन्द्रापणेऽन्यदा । उपानदर्थं तेनापि सादरं पूर्वनिर्मितम् ॥१९७।। उपानयुगलमेतद् युज्यते तव पादयोः । मूल्येनालं तव स्वामिन् ! मङ्गलीके(माङ्गलिके) मया कृतम् ॥१९८।। हृष्टश्च शुभवाक्येन शुश्राव कुमरस्तदा । पत्तने पादुकाराज्यं मरणं सिद्धभूपतेः ॥१९९।। कुमारपालराजानं शृणोषि पत्तने यदा । शीघ्रमेयास्तदामन्त्र्य मोचिकं कुमरस्ततः ॥२००॥ 10 15 उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः । कन्नाली-सिद्धपुरेऽगाल्लात्वाशेषकुटुम्बकम् ॥२०१॥ तत्र पूर्वप्रतिपन्नमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बमेकाकी पत्तने ययौ ॥२०२।। ६६२७. गत्वा गृहे कृष्णभट्टदेवस्य भगिनीपतेः । रात्रौ ननाम भगिनी कुमारः प्रमिलाभिधाम् ॥२०३।। भ्रातेति प्रत्यभिज्ञाय तयापि स्नापितः स्वयम् । स्नाननीरे वीक्ष्य स्नातां दुर्गा शाकुनिकोऽब्रवीत् ॥२०४।। सप्ताहान्तर्भवान् राजा प्रमाणं शकुना यदि । तदाकर्ण्य भगिन्याऽपि विज्ञप्तं पत्युरात्मनः ॥२०५।। मण्डलेशकृष्णदेवः कुमारं परिरभ्य तम् । तवैव राज्यं नान्यस्य मा विषीदेत्युवाच सः ॥२०६।। महितटदेशाधीशं विजयपालराणकम् । मित्रमाकार्य कृष्णेन पर्यालोचः कृतस्ततः ॥२०७।। 20 25 1. B तदिद० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy