________________
११२
कुमारपालचरित्रसङ्ग्रहः बहि: सर्वर्तुपुष्पफलोपेतमनोरमोद्याने शक्रावतारतीर्थे गतः । तत्र कमपिं वृद्धपुरुषं तत्स्वरूपमपृच्छत् । तेनोक्तम्-‘पुरा श्रीयुगादिदेवस्य शतं पुत्रा आसन् । तेषु जयनामकुमारस्थापितमिदं जयपुरम् । अन्यदाऽत्र शक्रादिसुरासुरनरनिकरनायकसेव्यमान
पादारविन्दः श्रीऋषभदेवः समवासार्षीत् । तदा समवसरणस्थाने शक्र निर्मितः 5 प्रासादोऽयम् । षड्ऋतुमयमुद्यानं च भगवत्पूजार्थमिदम् । एतदाकर्ण्य विस्मयमनाश्चेतसीदं चिन्तयन्-'अहो ! अनादिकालीनोऽयं श्रीजिनधर्मः, महाप्रभावश्च । ततः स्वयं तत्र गत्वा आदिदेवं ननाम ।
ततोऽपि कामरूपेऽगात् कामाख्येक्षणकौतुकी।
तर कामाक्षीदेवीभवने गतः । पूजार्थमागतं निजरूपनिर्जितकामवामाक्षी10गर्वसर्वस्वं स्त्रीवृन्दं देशस्वभावान्मुक्तमर्यादं सकलकलाकुशलमवेक्ष्याचिन्तयत्५९. संसार ! तव निस्तारपदवी न दवीयसि ।
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ ६०. वैरिवारणदन्ताग्रे समारुह्य स्थिरीकृता ।
वीरश्रीधैर्महासत्त्वैर्योषिद्भिस्तेऽपि खण्डिताः ॥ 15 ६६२६. ततोऽगात् तत्र यत्रास्ति सर्परूपेण भूपतिः ।
___ भौतिकं दैवकं वापि यद्राज्ये न भयं भवेत् ॥१९६॥
कश्चिदृद्धपार्श्वे सर्पराज्यकारणमपृच्छत्-तेनोक्तम्-'भो ! पुरा नागकुमारदेवस्थापितं नागेन्द्रपत्तनमिदम् । तत्र श्रीकान्तराजा अत्यन्त श्रीमान् दाता भोक्ता विवेकी प्रजाप्रियः परं यदपि तदपि कारणं प्राप्य क्रोधी भवति । 20 ६१. यतः- नाकारणरुषां सङ्ख्या सङ्ख्याताः कारणे क्रुधः ।
कारणेऽपि न कुप्यन्ते ये ते जगति पञ्चषाः ॥१॥ ततः स राजाऽन्यदा क्रोधान्धो व्रजन् सौधान्धकारे स्तम्भाभिघातमूच्छितो निष्पुत्रो मृत्वाऽऽर्तध्यानवशात् सप्तफणालङ्कृतः सोऽभूत् स्वभाण्डागारे । स मन्त्रिभिर्वारं वारं
बहिर्मुक्तः स्वद्रविणमोहितः पुनः पुनस्तत्रैवायाति । राज्यं पुत्रं विना शून्यं जातम् । 25 वैरिभिर्निरुद्धम् । ततो महति सङ्कटे लोकैः पुरस्थापकनागकुमारदेवः स्मृतः । स समायातः । स जातिस्मरं नागं सप्तफणालङ्कृतं [ दृष्ट्वा, अयम् ] अस्मदीयकुलोत्पन्नः,
1. सीदमचिन्तयत् । 2. B कामाक्षा० । 3. B स्युर्यदीमा । 4. Pa दैविकं चापि । 5. B क्रोध उत्पद्यते । 6. B राज्यं च । 7. ‘स जाति० यावत् 'अस्मदीय० इति पाठस्थाने सजातिस्मरणो नागः सप्तफणालङ्कृतोऽस्मदीय इति B प्रतौ पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -