SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । ५६. दुर्भिक्षोदयमन्नसङ्ग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतेर्भिषक् गदगणोत्पातं कलिं नारदः । दोषग्राहिनस्तु पश्यति परच्छिद्रं छलं शाकिनी; निष्पुत्रं म्रियमाणमाढ्यमवनीपालो हहा वाञ्छति ॥१॥ राज्ये नाहं ग्रहीष्यामि स्वदेशे स्वमपुत्रिणाम् । प्रतिज्ञायेति कुमरो गतः पाटलिपुत्रके ॥ १९४ ॥ तत्र च पुरा सञ्जातनवनन्दकारितनवस्वर्णमयपर्वतादिस्वरूपं श्रुत्वा मनस्य चिन्तयत् ५७. येषां वित्तैः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतद् भुवनवलयं निज्जितं लीलयैव । तेऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्बलीलां; धृत्वा धृत्वा सपदि विलयं भूभुजः सम्प्रयाताः ॥१ ॥ यदस्माकं वित्तचयो भविष्यति तदा दानभोगादौ व्ययं करिष्याम इत्यादि बहु विचिन्त्याग्रे चचाल । ततो राजगृहे गच्छन् वीक्ष्य वैभारपर्वतम् । श्रुत्वा समवसरणस्थानान्येष विसिष्मिये ॥१९५॥ तत्र प्राग्भवपुण्यप्राग्भारशालिनः श्रीशालिभद्रस्य सौधनिर्माल्योत्तीर्णस्वर्णमाणिक्यमणिमयाभरणप्रक्षेपवापीप्रमुखस्थानानि निरीक्ष्य भोगलीलां वैराग्यं च श्रुत्वा विस्मयस्मेरमनाश्चिन्तयति स्म । यथा ५८. ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करं, यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निस्पृहाः । न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययाः; वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥१॥ १११ 1. यैरप्येतद् भुवनवलयं निर्जितं लीलयैव तेऽप्येतस्मिन् गुरुभवहदे बुद० इत्येतत्पाठस्थाने निर्जित्यैतद्भुवनवलयं ये विभुत्वं प्रपन्नाः । संसारेऽस्मिन् सरसविलसद्बुद्बुद० एतादृशः पाठः B आदर्शे । 2. B यद्यस्माकं । 3. B स्थानाद्येष । 4. B सौधे नि० । Jain Education International For Private & Personal Use Only 5 10 ततो वैभारगिरिमारुरोह । श्रीशालिभद्रपादपोपगमानशनशिलातलादि निरीक्ष्य चेतसि चमत्कृतो वैराग्यवान् जातः । ततो नवद्वीपकदेशेषु गत्वा जयपुरं ययौ । तत्र 25 15 20 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy