________________
5
10
20
११०
15
25
५४.
ततः श्रीरघुवंशमौक्तिक श्रीकीर्त्तिधरराजर्षिपुत्रस्य सुकोसलमहर्षेः पूर्वभवमातृव्याघ्रीकृतोपसर्गस्य समुत्पन्नकेवलज्ञानस्य निर्वाणभूमिकां चित्रकूटासन्नां नैत्वा, §§२५. ततस्तदीक्ष्य सोत्कण्ठः कन्यकुब्जपुरं ययौ ।
आम्राणां लक्षशो वीक्ष्य लक्षारामान् सविस्मयः ॥ १८७॥ पप्रच्छ कञ्चित् किमाम्रा दृश्यन्ते गणनातिगाः । सोऽप्यूचे न करोऽत्रास्ति चूतानां तद् घना अमी ॥१८८॥ राज्येऽहमपि चूतानां करं मोक्ष्ये स्वनीवृति । विचिन्त्येति कुमारोऽगात् काशी निर्भरवेषभाक् ॥ १८९॥ भ्रामन्नेकेन वणिजा वस्त्राद्यैः सत्कृतः कृती | द्वितीयेऽह्नि लुट्यमानं तदृहं वीक्ष्य दुःखितः ॥ १९०॥ कञ्चित् पप्रच्छ किमिदं सोचेऽद्यापुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन लुण्ट्यते राजपूरुषैः ॥ १९१।। श्रुत्वेति चकितः स्वान्ते भवरूपं विभावयत्(न्) । यथा क्षणादसौ नष्टः श्रेष्ठी सर्वं तथा भवेत् ॥१९२॥ असारः संसारः सरलकदलीसारसदृशो, लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् । यदेतत् तारुण्यं नगगतनदीवेगसदृशं; अहो धाष्टर्यं पुंसां तदपि विषयान् धावति मनः ॥ १ ॥ कुमारोऽचिन्तन्तयदसौ धिग् राज्यं यदपुत्रिणाम् । म्लेच्छानामपि सर्वस्वं राजा गृह्णाति पुत्रवत् ॥१९३॥
Jain Education International
५५.
कुमारः सपरीवारः तत् श्रुत्वाऽऽरुह्य तं नगम् । विस्मितः सर्वतो वीक्ष्य दिग्भागान् निजगाद च ॥१८६॥
शैलाः सर्वे गण्डशैलानुकारा,
वृद्धा ग्रामाः क्षामधामोपमानाः । कुल्याकल्पां प्रौढसिन्धुप्रवाहाः; सन्दृश्यन्ते दूरतो ऽत्राधिरूढैः ॥१॥
कुमारपालचरित्रसङ्ग्रहः
1. B कुल्यातुल्याः । 2. B मत्वा तत्र गत्वा नमश्चकार तीर्थम् । 3. B ० स्तद्वीक्ष्या । 4. B निर्जर० । 5. B व्यभावयत् । 6. B भवे ।
For Private & Personal Use Only
www.jainelibrary.org